Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.058
बृहदश्व उवाच॥
ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः। पुष्करेण हृतं राज्यं यच्चान्यद्वसु किञ्चन ॥०३-५८-१॥
हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत्। द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव ॥०३-५८-२॥
शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया। दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे ॥३-५८-३॥
पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना। व्यदीर्यतेव हृदयं न चैनं किञ्चिदब्रवीत् ॥०३-५८-४॥
ततः पुष्करमालोक्य नलः परममन्युमान्। उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः ॥०३-५८-५॥
एकवासा असंवीतः सुहृच्छोकविवर्धनः। निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम् ॥०३-५८-६॥
दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्वियात्। स तया बाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत् ॥०३-५८-७॥
पुष्करस्तु महाराज घोषयामास वै पुरे। नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ॥०३-५८-८॥
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च। पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर ॥०३-५८-९॥
स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः। त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् ॥०३-५८-१०॥
क्षुधा सम्पीड्यमानस्तु नलो बहुतिथेऽहनि। अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् ॥०३-५८-११॥
स चिन्तयामास तदा निषधाधिपतिर्बली। अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति ॥०३-५८-१२॥
ततस्तानन्तरीयेण वाससा समवास्तृणोत्। तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा ॥०३-५८-१३॥
उपतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम्। दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ॥०३-५८-१४॥
वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः। आगता न हि नः प्रीतिः सवाससि गते त्वयि ॥०३-५८-१५॥
तान्समीक्ष्य गतानक्षानात्मानं च विवाससम्। पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत् ॥०३-५८-१६॥
येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते। प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः ॥०३-५८-१७॥
येषां कृते न सत्कारमकुर्वन्मयि नैषधाः। त इमे शकुना भूत्वा वासोऽप्यपहरन्ति मे ॥०३-५८-१८॥
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः। भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः ॥०३-५८-१९॥
एते गच्छन्ति बहवः पन्थानो दक्षिणापथम्। अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ॥०३-५८-२०॥
एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा। आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः ॥०३-५८-२१॥
एष पन्था विदर्भाणामयं गच्छति कोसलान्। अतः परं च देशोऽयं दक्षिणे दक्षिणापथः ॥०३-५८-२२॥
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता। उवाच दमयन्ती तं नैषधं करुणं वचः ॥०३-५८-२३॥
उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः। तव पार्थिव सङ्कल्पं चिन्तयन्त्याः पुनः पुनः ॥०३-५८-२४॥
हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम्। कथमुत्सृज्य गच्छेयमहं त्वां विजने वने ॥०३-५८-२५॥
श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम्। वने घोरे महाराज नाशयिष्यामि ते क्लमम् ॥०३-५८-२६॥
न च भार्यासमं किञ्चिद्विद्यते भिषजां मतम्। औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते ॥०३-५८-२७॥
नल उवाच॥
एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे। नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥०३-५८-२८॥
न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे। त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते ॥०३-५८-२९॥
दमयन्त्युवाच॥
यदि मां त्वं महाराज न विहातुमिहेच्छसि। तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते ॥०३-५८-३०॥
अवैमि चाहं नृपते न त्वं मां त्यक्तुमर्हसि। चेतसा त्वपकृष्टेन मां त्यजेथा महापते ॥०३-५८-३१॥
पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम। अतोनिमित्तं शोकं मे वर्धयस्यमरप्रभ ॥०३-५८-३२॥
यदि चायमभिप्रायस्तव राजन्व्रजेदिति। सहितावेव गच्छावो विदर्भान्यदि मन्यसे ॥०३-५८-३३॥
विदर्भराजस्तत्र त्वां पूजयिष्यति मानद। तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ॥०३-५८-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.