03.059
नल उवाच॥
यथा राज्यं पितुस्ते तत्तथा मम न संशयः। न तु तत्र गमिष्यामि विषमस्थः कथञ्चन ॥०३-५९-१॥
कथं समृद्धो गत्वाहं तव हर्षविवर्धनः। परिद्यूनो गमिष्यामि तव शोकविवर्धनः ॥०३-५९-२॥
बृहदश्व उवाच॥
इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः। सान्त्वयामास कल्याणीं वाससोऽर्धेन संवृताम् ॥०३-५९-३॥
तावेकवस्त्रसंवीतावटमानावितस्ततः। क्षुत्पिपासापरिश्रान्तौ सभां काञ्चिदुपेयतुः ॥०३-५९-४॥
तां सभामुपसम्प्राप्य तदा स निषधाधिपः। वैदर्भ्या सहितो राजा निषसाद महीतले ॥०३-५९-५॥
स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः। दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले ॥०३-५९-६॥
दमयन्त्यपि कल्याणी निद्रयापहृता ततः। सहसा दुःखमासाद्य सुकुमारी तपस्विनी ॥०३-५९-७॥
सुप्तायां दमयन्त्यां तु नलो राजा विशां पते। शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा ॥०३-५९-८॥
स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः। वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् ॥०३-५९-९॥
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः। किं नु मे मरणं श्रेयः परित्यागो जनस्य वा ॥०३-५९-१०॥
मामियं ह्यनुरक्तेदं दुःखमाप्नोति मत्कृते। मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ॥०३-५९-११॥
मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा। उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित् ॥०३-५९-१२॥
स विनिश्चित्य बहुधा विचार्य च पुनः पुनः। उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिपः ॥०३-५९-१३॥
सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम्। चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ॥०३-५९-१४॥
कथं वासो विकर्तेयं न च बुध्येत मे प्रिया। चिन्त्यैवं नैषधो राजा सभां पर्यचरत्तदा ॥०३-५९-१५॥
परिधावन्नथ नल इतश्चेतश्च भारत। आससाद सभोद्देशे विकोशं खड्गमुत्तमम् ॥०३-५९-१६॥
तेनार्धं वाससश्छित्त्वा निवस्य च परन्तपः। सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः ॥०३-५९-१७॥
ततो निबद्धहृदयः पुनरागम्य तां सभाम्। दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः ॥०३-५९-१८॥
यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम्। सेयमद्य सभामध्ये शेते भूमावनाथवत् ॥०३-५९-१९॥
इयं वस्त्रावकर्तेन संवीता चारुहासिनी। उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति ॥०३-५९-२०॥
कथमेका सती भैमी मया विरहिता शुभा। चरिष्यति वने घोरे मृगव्यालनिषेविते ॥०३-५९-२१॥
गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः। आकृष्यमाणः कलिना सौहृदेनापकृष्यते ॥०३-५९-२२॥
द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा। दोलेव मुहुरायाति याति चैव सभां मुहुः ॥०३-५९-२३॥
सोऽपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः। सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु ॥०३-५९-२४॥
नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः। जगामैव वने शून्ये भार्यामुत्सृज्य दुःखितः ॥०३-५९-२५॥