03.060
बृहदश्व उवाच॥
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा। अबुध्यत वरारोहा सन्त्रस्ता विजने वने ॥०३-६०-१॥
सापश्यमाना भर्तारं दुःखशोकसमन्विता। प्राक्रोशदुच्चैः सन्त्रस्ता महाराजेति नैषधम् ॥०३-६०-२॥
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम्। हा हतास्मि विनष्टास्मि भीतास्मि विजने वने ॥०३-६०-३॥
ननु नाम महाराज धर्मज्ञः सत्यवागसि। कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः ॥०३-६०-४॥
कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम्। विशेषतोऽनपकृते परेणापकृते सति ॥०३-६०-५॥
शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर। यास्त्वया लोकपालानां संनिधौ कथिताः पुरा ॥०३-६०-६॥
पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ। भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर ॥०३-६०-७॥
दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध। आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ॥०३-६०-८॥
नृशंसं बत राजेन्द्र यन्मामेवङ्गतामिह। विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव ॥०३-६०-९॥
न शोचाम्यहमात्मानं न चान्यदपि किञ्चन। कथं नु भवितास्येक इति त्वां नृप शोचिमि ॥०३-६०-१०॥
कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः। सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ॥०३-६०-११॥
ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना। इतश्चेतश्च रुदती पर्यधावत दुःखिता ॥०३-६०-१२॥
मुहुरुत्पतते बाला मुहुः पतति विह्वला। मुहुरालीयते भीता मुहुः क्रोशति रोदिति ॥०३-६०-१३॥
सा तीव्रशोकसन्तप्ता मुहुर्निःश्वस्य विह्वला। उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता ॥०३-६०-१४॥
यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः। तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् ॥०३-६०-१५॥
अपापचेतसं पापो य एवं कृतवान्नलम्। तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम् ॥०३-६०-१६॥
एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः। अन्वेषति स्म भर्तारं वने श्वापदसेविते ॥०३-६०-१७॥
उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः। हा हा राजन्निति मुहुरितश्चेतश्च धावति ॥०३-६०-१८॥
तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम्। करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः ॥०३-६०-१९॥
सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम्। जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः ॥०३-६०-२०॥
सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता। नात्मानं शोचति तथा यथा शोचति नैषधम् ॥०३-६०-२१॥
हा नाथ मामिह वने ग्रस्यमानामनाथवत्। ग्राहेणानेन विपिने किमर्थं नाभिधावसि ॥०३-६०-२२॥
कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध। पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च ॥०३-६०-२३॥
श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध। कः श्रमं राजशार्दूल नाशयिष्यति मानद ॥०३-६०-२४॥
तामकस्मान्मृगव्याधो विचरन्गहने वने। आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह ॥०३-६०-२५॥
तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्। त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः ॥०३-६०-२६॥
मुखतः पातयामास शस्त्रेण निशितेन ह। निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः ॥०३-६०-२७॥
मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च। समाश्वास्य कृताहारामथ पप्रच्छ भारत ॥०३-६०-२८॥
कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम्। कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि ॥०३-६०-२९॥
दमयन्ती तथा तेन पृच्छ्यमाना विशां पते। सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत ॥०३-६०-३०॥
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम्। सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् ॥०३-६०-३१॥
अरालपक्ष्मनयनां तथा मधुरभाषिणीम्। लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान् ॥०३-६०-३२॥
तामथ श्लक्ष्णया वाचा लुब्धको मृदुपुर्वया। सान्त्वयामास कामार्तस्तदबुध्यत भामिनी ॥०३-६०-३३॥
दमयन्ती तु तं दुष्टमुपलभ्य पतिव्रता। तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना ॥०३-६०-३४॥
स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः। दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव ॥०३-६०-३५॥
दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता। अतीतवाक्पथे काले शशापैनं रुषा किल ॥०३-६०-३६॥
यथाहं नैषधादन्यं मनसापि न चिन्तये। तथायं पततां क्षुद्रः परासुर्मृगजीवनः ॥०३-६०-३७॥
उक्तमात्रे तु वचने तया स मृगजीवनः। व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ॥०३-६०-३८॥