03.061
बृहदश्व उवाच॥
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा। वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ॥०३-६१-१॥
सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम्। नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम् ॥०३-६१-२॥
शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः। अर्जुनारिष्टसञ्छन्नं चन्दनैश्च सशाल्मलैः ॥०३-६१-३॥
जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम्। काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम् ॥०३-६१-४॥
बदरीबिल्वसञ्छन्नं न्यग्रोधैश्च समाकुलम्। प्रियालतालखर्जूरहरीतकबिभीतकैः ॥०३-६१-५॥
नानाधातुशतैर्नद्धान्विविधानपि चाचलान्। निकुञ्जान्पक्षिसङ्घुष्टान्दरीश्चाद्भुतदर्शनाः ॥ नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान् ॥०३-६१-६॥
सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान्। पल्वलानि तडागानि गिरिकूटानि सर्वशः ॥ सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान् ॥०३-६१-७॥
यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी। महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् ॥०३-६१-८॥
तेजसा यशसा स्थित्या श्रिया च परया युता। वैदर्भी विचरत्येका नलमन्वेषती तदा ॥०३-६१-९॥
नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित्। दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता ॥०३-६१-१०॥
विदर्भतनया राजन्विललाप सुदुःखिता। भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता ॥०३-६१-११॥
दमयन्त्युवाच॥
सिंहोरस्क महाबाहो निषधानां जनाधिप। क्व नु राजन्गतोऽसीह त्यक्त्वा मां निर्जने वने ॥०३-६१-१२॥
अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः। कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे ॥०३-६१-१३॥
यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते। कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ ॥०३-६१-१४॥
यथोक्तं विहगैर्हंसैः समीपे तव भूमिप। मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि ॥०३-६१-१५॥
चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः। स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः ॥०३-६१-१६॥
तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर। उक्तवानसि यद्वीर मत्सकाशे पुरा वचः ॥०३-६१-१७॥
हा वीर ननु नामाहमिष्टा किल तवानघ। अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे ॥०३-६१-१८॥
भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः। अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि ॥०३-६१-१९॥
न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा। तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप ॥०३-६१-२०॥
उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप। ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे ॥०३-६१-२१॥
कृशां दीनां विवर्णां च मलिनां वसुधाधिप। वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् ॥०३-६१-२२॥
यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन। न मानयसि मानार्ह रुदतीमरिकर्शन ॥०३-६१-२३॥
महाराज महारण्ये मामिहैकाकिनीं सतीम्। आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे ॥०३-६१-२४॥
कुलशीलोपसम्पन्नं चारुसर्वाङ्गशोभनम्। नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम ॥ वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते ॥०३-६१-२५॥
शयानमुपविष्टं वा स्थितं वा निषधाधिप। प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन ॥०३-६१-२६॥
कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता। कच्चिद्दृष्टस्त्वयारण्ये सङ्गत्येह नलो नृपः ॥०३-६१-२७॥
को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नलम्। अभिरूपं महात्मानं परव्यूहविनाशनम् ॥०३-६१-२८॥
यमन्वेषसि राजानं नलं पद्मनिभेक्षणम्। अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् ॥०३-६१-२९॥
अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः। शार्दूलोऽभिमुखः प्रैति पृच्छाम्येनमशङ्किता ॥०३-६१-३०॥
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः। विदर्भराजतनयां दमयन्तीति विद्धि माम् ॥०३-६१-३१॥
निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः। पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् ॥ आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः ॥०३-६१-३२॥
अथ वारण्यनृपते नलं यदि न शंससि। मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम् ॥०३-६१-३३॥
श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम्। यात्येतां मृष्टसलिलामापगां सागरङ्गमाम् ॥०३-६१-३४॥
इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः। विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः ॥०३-६१-३५॥
नानाधातुसमाकीर्णं विविधोपलभूषितम्। अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम् ॥०३-६१-३६॥
सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम्। पतत्रिभिर्बहुविधैः समन्तादनुनादितम् ॥०३-६१-३७॥
किंशुकाशोकबकुलपुंनागैरुपशोभितम्। सरिद्भिः सविहङ्गाभिः शिखरैश्चोपशोभितम् ॥ गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति ॥०३-६१-३८॥
भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत। शरण्य बहुकल्याण नमस्तेऽस्तु महीधर ॥०३-६१-३९॥
प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम्। राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम् ॥०३-६१-४०॥
राजा विदर्भाधिपतिः पिता मम महारथः। भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ॥०३-६१-४१॥
राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम्। आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः ॥०३-६१-४२॥
ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः। शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः ॥०३-६१-४३॥
सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः। तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् ॥०३-६१-४४॥
निषधेषु महाशैल श्वशुरो मे नृपोत्तमः। सुगृहीतनामा विख्यातो वीरसेन इति स्म ह ॥०३-६१-४५॥
तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः। क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह ॥०३-६१-४६॥
नलो नामारिदमनः पुण्यश्लोक इति श्रुतः। ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् ॥०३-६१-४७॥
यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता। तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् ॥०३-६१-४८॥
त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम्। अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम् ॥०३-६१-४९॥
खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः। कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः ॥०३-६१-५०॥
गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः। विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः ॥ निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः ॥०३-६१-५१॥
किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम्। गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम् ॥०३-६१-५२॥
वीर विक्रान्त धर्मज्ञ सत्यसन्ध महीपते। यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना ॥०३-६१-५३॥
कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम्। श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् ॥०३-६१-५४॥
वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः। आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम् ॥०३-६१-५५॥
इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी। दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ॥०३-६१-५६॥
सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना। तापसारण्यमतुलं दिव्यकाननदर्शनम् ॥०३-६१-५७॥
वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम्। नियतैः संयताहारैर्दमशौचसमन्वितैः ॥०३-६१-५८॥
अڀक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च। जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः ॥०३-६१-५९॥
वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः। तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् ॥०३-६१-६०॥
सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम्। शाखामृगगणैश्चैव तापसैश्च समन्वितम् ॥०३-६१-६१॥
सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना। वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी ॥०३-६१-६२॥
सा विवेशाश्रमपदं वीरसेनसुतप्रिया। योषिद्रत्नं महाभागा दमयन्ती मनस्विनी ॥०३-६१-६३॥
साभिवाद्य तपोवृद्धान्विनयावनता स्थिता। स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा ॥०३-६१-६४॥
पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः। आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे ॥०३-६१-६५॥
तानुवाच वरारोहा कच्चिद्भगवतामिह। तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः ॥ कुशलं वो महाभागाः स्वधर्मचरणेषु च ॥०३-६१-६६॥
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी। ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि ॥०३-६१-६७॥
दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह। विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः ॥०३-६१-६८॥
अस्यारण्यस्य महती देवता वा महीभृतः। अस्या नु नद्याः कल्याणि वद सत्यमनिन्दिते ॥०३-६१-६९॥
साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता। न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम् ॥०३-६१-७०॥
मानुषीं मां विजानीत यूयं सर्वे तपोधनाः। विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः ॥०३-६१-७१॥
विदर्भेषु महीपालो भीमो नाम महाद्युतिः। तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ॥०३-६१-७२॥
निषधाधिपतिर्धीमान्नलो नाम महायशाः। वीरः सङ्ग्रामजिद्विद्वान्मम भर्ता विशां पतिः ॥०३-६१-७३॥
देवताभ्यर्चनपरो द्विजातिजनवत्सलः। गोप्ता निषधवंशस्य महाभागो महाद्युतिः ॥०३-६१-७४॥
सत्यवाग्धर्मवित्प्राज्ञः सत्यसन्धोऽरिमर्दनः। ब्रह्मण्यो दैवतपरः श्रीमान्परपुरञ्जयः ॥०३-६१-७५॥
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः। मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा ॥०३-६१-७६॥
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः। सपत्नानां मृधे हन्ता रविसोमसमप्रभः ॥०३-६१-७७॥
स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधमैः। आहूय पृथिवीपालः सत्यधर्मपरायणः ॥ देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च ॥०३-६१-७८॥
तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै। दमयन्तीति विख्यातां भर्तृदर्शनलालसाम् ॥०३-६१-७९॥
सा वनानि गिरींश्चैव सरांसि सरितस्तथा। पल्वलानि च रम्याणि तथारण्यानि सर्वशः ॥०३-६१-८०॥
अन्वेषमाणा भर्तारं नलं रणविशारदम्। महात्मानं कृतास्त्रं च विचरामीह दुःखिता ॥०३-६१-८१॥
कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः। भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः ॥०३-६१-८२॥
यत्कृतेऽहमिदं विप्राः प्रपन्ना भृशदारुणम्। वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् ॥०३-६१-८३॥
यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम्। आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् ॥०३-६१-८४॥
को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम्। कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता ॥०३-६१-८५॥
एवं विलपतीमेकामरण्ये भीमनन्दिनीम्। दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः ॥०३-६१-८६॥
उदर्कस्तव कल्याणि कल्याणो भविता शुभे। वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ॥०३-६१-८७॥
निषधानामधिपतिं नलं रिपुनिघातिनम्। भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ॥०३-६१-८८॥
विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम्। तदेव नगरश्रेष्ठं प्रशासन्तमरिंदमम् ॥०३-६१-८९॥
द्विषतां भयकर्तारं सुहृदां शोकनाशनम्। पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् ॥०३-६१-९०॥
एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम्। अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तदा ॥०३-६१-९१॥
सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा। दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा ॥०३-६१-९२॥
किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत्। क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम् ॥०३-६१-९३॥
क्व सा पुण्यजला रम्या नानाद्विजनिषेविता। नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः ॥०३-६१-९४॥
ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता। भर्तृशोकपरा दीना विवर्णवदनाभवत् ॥०३-६१-९५॥
सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा। विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः ॥०३-६१-९६॥
उपगम्य तरुश्रेष्ठमशोकं पुष्पितं तदा। पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम् ॥०३-६१-९७॥
अहो बतायमगमः श्रीमानस्मिन्वनान्तरे। आपीडैर्बहुभिर्भाति श्रीमान्द्रमिडराडिव ॥०३-६१-९८॥
विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन। वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् ॥०३-६१-९९॥
नलं नामारिदमनं दमयन्त्याः प्रियं पतिम्। निषधानामधिपतिं दृष्टवानसि मे प्रियम् ॥०३-६१-१००॥
एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम्। व्यसनेनार्दितं वीरमरण्यमिदमागतम् ॥०३-६१-१०१॥
यथा विशोका गच्छेयमशोकनग तत्कुरु। सत्यनामा भवाशोक मम शोकविनाशनात् ॥०३-६१-१०२॥
एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह। जगाम दारुणतरं देशं भैमी वराङ्गना ॥०३-६१-१०३॥
सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा। नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः ॥०३-६१-१०४॥
कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान्। ददर्श सा भीमसुता पतिमन्वेषती तदा ॥०३-६१-१०५॥
गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता। ददर्शाथ महासार्थं हस्त्यश्वरथसङ्कुलम् ॥०३-६१-१०६॥
उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम्। सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् ॥०३-६१-१०७॥
प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम्। कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम् ॥०३-६१-१०८॥
सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी। उपसर्प्य वरारोहा जनमध्यं विवेश ह ॥०३-६१-१०९॥
उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता। कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ॥०३-६१-११०॥
तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः। केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः ॥०३-६१-१११॥
प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे। चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत ॥०३-६१-११२॥
कासि कस्यासि कल्याणि किं वा मृगयसे वने। त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी ॥०३-६१-११३॥
वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः। देवता त्वं हि कल्याणि त्वां वयं शरणं गताः ॥०३-६१-११४॥
यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना। सर्वथा कुरु नः स्वस्ति रक्षस्वास्माननिन्दिते ॥०३-६१-११५॥
यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत्। तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः ॥०३-६१-११६॥
तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा। प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता ॥ सार्थवाहं च सार्थं च जना ये चात्र केचन ॥०३-६१-११७॥
यूनः स्थविरबालाश्च सार्थस्य च पुरोगमाः। मानुषीं मां विजानीत मनुजाधिपतेः सुताम् ॥ नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् ॥०३-६१-११८॥
विदर्भराण्मम पिता भर्ता राजा च नैषधः। नलो नाम महाभागस्तं मार्गाम्यपराजितम् ॥०३-६१-११९॥
यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम्। नलं पार्थिवशार्दूलममित्रगणसूदनम् ॥०३-६१-१२०॥
तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः। सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः ॥०३-६१-१२१॥
अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते। मनुष्यं नलनामानं न पश्यामि यशस्विनि ॥०३-६१-१२२॥
कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि। पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते ॥ तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥०३-६१-१२३॥
साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः। क्व नु यास्यसि सार्थोऽयमेतदाख्यातुमर्हथ ॥०३-६१-१२४॥
सार्थवाह उवाच॥
सार्थोऽयं चेदिराजस्य सुबाहोः सत्यवादिनः। क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ॥०३-६१-१२५॥