Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.062
बृहदश्व उवाच॥
सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा। अगच्छत्तेन वै सार्धं भर्तृदर्शनलालसा ॥०३-६२-१॥
अथ काले बहुतिथे वने महति दारुणे। तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत् ॥०३-६२-२॥
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम्। बहुमूलफलोपेतं नानापक्षिगणैर्वृतम् ॥०३-६२-३॥
तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम्। सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ॥०३-६२-४॥
संमते सार्थवाहस्य विविशुर्वनमुत्तमम्। उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम् ॥०३-६२-५॥
अथार्धरात्रसमये निःशब्दस्तिमिते तदा। सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् ॥ पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम् ॥०३-६२-६॥
मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम्। सुप्तं ममर्द सहसा चेष्टमानं महीतले ॥०३-६२-७॥
हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः। वनगुल्मांश्च धावन्तो निद्रान्धा महतो भयात् ॥ केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता नराः ॥०३-६२-८॥
गोखरोष्ट्राश्वबहुलं पदातिजनसङ्कुलम्। भयार्तं धावमानं तत्परस्परहतं तदा ॥०३-६२-९॥
घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले। वृक्षेष्वासज्य सम्भग्नाः पतिता विषमेषु च ॥ तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम् ॥०३-६२-१०॥
अथापरेद्युः सम्प्राप्ते हतशिष्टा जनास्तदा। वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम् ॥ भ्रातरं पितरं पुत्रं सखायं च जनाधिप ॥०३-६२-११॥
अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम्। योऽपि मे निर्जनेऽरण्ये सम्प्राप्तोऽयं जनार्णवः ॥ हतोऽयं हस्तियूथेन मन्दभाग्यान्ममैव तु ॥०३-६२-१२॥
प्राप्तव्यं सुचिरं दुःखं मया नूनमसंशयम्। नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् ॥०३-६२-१३॥
यन्नाहमद्य मृदिता हस्तियूथेन दुःखिता। न ह्यदैवकृतं किञ्चिन्नराणामिह विद्यते ॥०३-६२-१४॥
न च मे बालभावेऽपि किञ्चिद्व्यपकृतं कृतम्। कर्मणा मनसा वाचा यदिदं दुःखमागतम् ॥०३-६२-१५॥
मnye svayaṃvarakṛte lokapālāḥ samāgatāḥ। pratyākhyātā mayā tatra nalasyārthāya devatāḥ ॥ nūnaṃ teṣāṃ prabhāvena viyogaṃ prāptavatyaham् ॥०३-६२-१६॥
एवमादीनि दुःखानि सा विलप्य वराङ्गना। हतशिष्टैः सह तदा ब्राह्मणैर्वेदपारगैः ॥ अगच्छद्राजशार्दूल दुःखशोकपरायणा ॥०३-६२-१७॥
गच्छन्ती सा चिरात्कालात्पुरमासादयन्महत्। सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः ॥ वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् ॥०३-६२-१८॥
तां विवर्णां कृशां दीनां मुक्तकेशीममार्जनाम्। उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ॥०३-६२-१९॥
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा। अनुजग्मुस्ततो बाला ग्रामिपुत्राः कुतूहलात् ॥०३-६२-२०॥
सा तैः परिवृता गच्छत् समीपं राजवेश्मनः। तां प्रासादगता अपश्यद् राजमाता जनैः वृताम् ॥०३-६२-२१॥
सा जनं वारयित्वा तं प्रासादतलमुत्तमम्। आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ॥०३-६२-२२॥
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः। भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा ॥०३-६२-२३॥
न हि ते मानुषं रूपं भूषणैरपि वर्जितम्। असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ॥०३-६२-२४॥
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत्। मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ॥०३-६२-२५॥
सैरन्ध्रीं जातिसम्पन्नां भुजिष्यां कामवासिनीम्। फलमूलाशनामेकां यत्रसायम्प्रतिश्रयाम् ॥०३-६२-२६॥
असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः। भर्तारमपि तं वीरं छायेवानपगा सदा ॥०३-६२-२७॥
तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं स्म देवने। द्यूते स निर्जितश्चैव वनमेकोऽभ्युपेयिवान् ॥०३-६२-२८॥
तमेकवसनं वीरमुन्मत्तमिव विह्वलम्। आश्वासयन्ती भर्तारमहमन्वगमं वनम् ॥०३-६२-२९॥
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे। क्षुत्परीतः सुविमनास्तदप्येकं व्यसर्जयत् ॥०३-६२-३०॥
तमे्कवसनं नग्नमुन्मत्तं गतचेतसम्। अनुव्रजन्ती बहुला न स्वपामि निशाः सदा ॥०३-६२-३१॥
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित्। वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ॥०३-६२-३२॥
तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः। न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम् ॥०३-६२-३३॥
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु। राजमाताब्रवीदार्तां भैमीमार्ततरा स्वयम् ॥०३-६२-३४॥
वसस्व मयि कल्याणि प्रीतिर्मे त्वयि वर्तते। मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥०३-६२-३५॥
अथ वा स्वयमागच्छेत्परिधावन्नितस्ततः। इहैव वसती भद्रे भर्तारमुपलप्स्यसे ॥०३-६२-३६॥
राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत्। समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि ॥०३-६२-३७॥
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम्। न चाहं पुरुषानन्यान्सम्भाषेयं कथञ्चन ॥०३-६२-३८॥
प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत्। भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् ॥०३-६२-३९॥
यद्येवमिह कर्तव्यं वसाम्यहमसंशयम्। अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् ॥०३-६२-४०॥
तां प्रहृष्टेन मनसा राजमातेदमब्रवीत्। सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ॥०३-६२-४१॥
एवमुक्त्वा ततो भैमीं राजमाता विशां पते। उवाचेदं दुहितरं सुनन्दां नाम भारत ॥०३-६२-४२॥
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम्। एतया सह मोदस्व निरुद्विग्नमनाः स्वयम् ॥०३-६२-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.