Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.063
बृहदश्व उवाच॥
उत्सृज्य दमयन्तीं तु नलो राजा विशां पते। ददर्श दावं दह्यन्तं महान्तं गहने वने ॥०३-६३-१॥
तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित्। अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ॥०३-६३-२॥
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम्। ददर्श नागराजानं शयानं कुण्डलीकृतम् ॥०३-६३-३॥
स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा। उवाच विद्धि मां राजन्नागं कर्कोटकं नृप ॥०३-६३-४॥
मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः। तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप ॥०३-६३-५॥
तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम्। उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥०३-६३-६॥
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः। लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥०३-६३-७॥
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः। तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम् ॥०३-६३-८॥
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना। उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ॥०३-६३-९॥
पदानि गणयन्गच्छ स्वानि नैषध कानिचित्। तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम् ॥०३-६३-१०॥
ततः सङ्ख्यातुमारब्धमदशद्दशमे पदे। तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥०३-६३-११॥
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः। स्वरूपधारिणं नागं ददर्श च महीपतिः ॥०३-६३-१२॥
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत्। मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति ॥०३-६३-१३॥
यत्कृते चासि विकृतो दुःखेन महता नल। विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ॥०३-६३-१४॥
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति। तावत्त्वयि महाराज दुःखं वै स निवत्स्यति ॥०३-६३-१५॥
अनागा येन निकृतस्त्वमनर्हो जनाधिप। क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ॥०३-६३-१६॥
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा। ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप ॥०३-६३-१७॥
राजन् विष निमित्ताः च न ते पीडा भविष्यति। सङ्ग्रामेषु च राजेन्द्र शश्वत् जयम् अवाप्स्यसि ॥०३-६३-१८॥
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन्। समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् ॥ अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर ॥०३-६३-१९॥
स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै। इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ॥०३-६३-२०॥
भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा। समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः ॥ राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ॥०३-६३-२१॥
स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप। संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः ॥०३-६३-२२॥
अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे। इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा ॥०३-६३-२३॥
एवं नलं समादिश्य वासो दत्त्वा च कौरव। नागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥०३-६३-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.