Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.064
बृहदश्व उवाच॥
तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः। ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ॥०३-६४-१॥
स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन्। अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥०३-६४-२॥
अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च। अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ॥०३-६४-३॥
यानि शिल्पानि लोकेऽस्मिन्यच्चाप्यन्यत्सुदुष्करम्। सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ॥०३-६४-४॥
ऋतुपर्ण उवाच॥
वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि। शीघ्रयाने सदा बुद्धिर्धीयते मे विशेषतः ॥०३-६४-५॥
स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम। भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः ॥०३-६४-६॥
त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णेयजीवलौ। एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ॥०३-६४-७॥
बृहदश्व उवाच॥
एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः। ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ॥०३-६४-८॥
स तत्र निवसन्राजा वैदर्भीमनुचिन्तयन्। सायं सायं सदा चेमं श्लोकमेकं जगाद ह ॥०३-६४-९॥
क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी। स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति ॥०३-६४-१०॥
एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत्। कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक ॥०३-६४-११॥
तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित्। आसीद्बहुमता नारी तस्या दृढतरं च सः ॥०३-६४-१२॥
स वै केनचिदर्थेन तया मन्दो व्ययुज्यत। विप्रयुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः ॥०३-६४-१३॥
दह्यमानः स शोकेन दिवारात्रमतन्द्रितः। निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ॥०३-६४-१४॥
स वै भ्रमन्महीं सर्वां क्वचिदासाद्य किञ्चन। वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् ॥०३-६४-१५॥
सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वने। त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति ॥०३-६४-१६॥
एका बालानभिज्ञा च मार्गाणामतथोचिता। क्षुत्पिपासापरीता च दुष्करं यदि जीवति ॥०३-६४-१७॥
श्वापदाचरिते नित्यं वने महति दारुणे। त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष ॥०३-६४-१८॥
इत्येवं नैषधो राजा दमयन्तीमनुस्मरन्। अज्ञातवासमवसद्राज्ञस्तस्य निवेशने ॥०३-६४-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.