Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.065
बृहदश्व उवाच॥
हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते। द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया ॥०३-६५-१॥
संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम्। मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् ॥०३-६५-२॥
अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे। गवां सहस्रं दास्यामि यो वस्तावानयिष्यति ॥ अग्रहारं च दास्यामि ग्रामं नगरसंमितम् ॥०३-६५-३॥
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा। ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् ॥०३-६५-४॥
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम्। पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया ॥०३-६५-५॥
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः। विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि ॥ पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ॥०३-६५-६॥
मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम्। पिनद्धां धूमजालेन प्रभामिव विभावसोः ॥०३-६५-७॥
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्। तर्कयामास भैमीति कारणैरुपपादयन् ॥०३-६५-८॥
सुदेव उवाच॥
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना। कृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम् ॥०३-६५-९॥
पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम्। कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ॥०३-६५-१०॥
चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव। इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥०३-६५-११॥
विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम्। मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम् ॥०३-६५-१२॥
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम्। पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव ॥०३-६५-१३॥
विध्वस्तपर्णकमलां वित्रासितविहङ्गमाम्। हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् ॥०३-६५-१४॥
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्। दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥०३-६५-१५॥
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम्। चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम् ॥०३-६५-१६॥
कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च। देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया ॥०३-६५-१७॥
भर्ता नाम परं नार्या भूषणं भूषणैर्विना। एषा विरहिता तेन शोभनापि न शोभते ॥०३-६५-१८॥
दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलः। धारयत्यात्मनो देहं न शोकेनावसीदति ॥०३-६५-१९॥
इमामसितकेशान्तां शतपत्रायतेक्षणाम्। सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः ॥०३-६५-२०॥
कदा नु खलु दुःखस्य पारं यास्यति वै शुभा। भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा ॥०३-६५-२१॥
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति। राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् ॥०३-६५-२२॥
तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम्। नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा ॥०३-६५-२३॥
युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया। समाश्वासयितुं भार्यां पतिदर्शनलालसाम् ॥०३-६५-२४॥
अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्। अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम् ॥०३-६५-२५॥
बृहदश्व उवाच॥
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम्। उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् ॥०३-६५-२६॥
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा। भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ॥०३-६५-२७॥
कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते। आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते ॥ त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते ॥०३-६५-२८॥
अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर। पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान् ॥०३-६५-२९॥
रुरोद च भृशं राजन्वैदर्भी शोककर्शिता। दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ॥०३-६५-३०॥
ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम्। सुदेवेन सहैकान्ते कथयन्तीं च भारत ॥०३-६५-३१॥
जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम्। ब्राह्मणेन समागम्य तां वेद यदि मन्यसे ॥०३-६५-३२॥
अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा। जगाम यत्र सा बाला ब्राह्मणेन सहाभवत् ॥०३-६५-३३॥
ततः सुदेवमानाय्य राजमाता विशां पते। पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ॥०३-६५-३४॥
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना। त्वया च विदिता विप्र कथमेवङ्गता सती ॥०३-६५-३५॥
एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः। तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् ॥०३-६५-३६॥
एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः। सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् ॥०३-६५-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.