03.066
सुदेव उवाच॥
विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः। सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ॥०३-६६-१॥
राजा तु नैषधो नाम वीरसेनसुतो नलः। भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः ॥०३-६६-२॥
स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः। दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित् ॥०३-६६-३॥
ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम्। सेयमासादिता बाला तव पुत्रनिवेशने ॥०३-६६-४॥
अस्या रूपेण सदृशी मानुषी नेह विद्यते। अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः ॥ श्यामायाः पद्मसङ्काशो लक्षितोऽन्तर्हितो मया ॥०३-६६-५॥
मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः। चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः ॥०३-६६-६॥
प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते। न चास्या नश्यते रूपं वपुर्मलसमाचितम् ॥ असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम् ॥०३-६६-७॥
अनेन वपुषा बाला पिप्लुनानेन चैव ह। लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा ॥०३-६६-८॥
बृहदश्व उवाच॥
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते। सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् ॥०३-६६-९॥
स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत। दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः ॥०३-६६-१०॥
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत। रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः ॥ उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् ॥०३-६६-११॥
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता। अहं च तव माता च राजन्यस्य महात्मनः ॥ सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने ॥०३-६६-१२॥
भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः। त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे ॥०३-६६-१३॥
यथैव ते पितुर्गेहं तथेदमपि भामिनि। यथैव हि ममैश्वर्यं दमयन्ति तथा तव ॥०३-६६-१४॥
तां प्रहृष्टेन मनसा दमयन्ती विशां पते। अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत् ॥०३-६६-१५॥
अज्ञायमानापि सती सुखमस्म्युषितेह वै। सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया ॥०३-६६-१६॥
सुखात्सुखतरो वासो भविष्यति न संशयः। चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि ॥०३-६६-१७॥
दारकौ च हि मे नीतौ वसतस्तत्र बालकौ। पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ ॥०३-६६-१८॥
यदि चापि प्रियं किञ्चिन्मयि कर्तुमिहेच्छसि। विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश ॥०३-६६-१९॥
बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप। गुप्तां बलेन महता पुत्रस्यानुमते ततः ॥०३-६६-२०॥
प्रस्थापयद्राजमाता श्रीमता नरवाहिना। यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् ॥०३-६६-२१॥
ततः सा नचिरादेव विदर्भानगमच्छुभा। तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् ॥०३-६६-२२॥
सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ। मातरं पितरं चैव सर्वं चैव सखीजनम् ॥०३-६६-२३॥
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी। विधिना परेण कल्याणी दमयन्ती विशां पते ॥०३-६६-२४॥
अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः। प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च ॥०३-६६-२५॥
सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी। विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् ॥०३-६६-२६॥