03.067
दमयन्त्युवाच॥
मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते। नरवीरस्य वै तस्य नलस्यानयने यत ॥०३-६७-१॥
बृहदश्व उवाच॥
दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता। बाष्पेण पिहिता राजन्नोत्तरं किञ्चिदब्रवीत् ॥०३-६७-२॥
तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा। हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ॥०३-६७-३॥
ततो भीमं महाराज भार्या वचनमब्रवीत्। दमयन्ती तव सुता भर्तारमनुशोचति ॥०३-६७-४॥
अपकृष्य च लज्जां मां स्वयमुक्तवती नृप। प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने ॥०३-६७-५॥
तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः। प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने ॥०३-६७-६॥
ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः। दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन् ॥०३-६७-७॥
अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः। ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः ॥०३-६७-८॥
क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम। उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥०३-६७-९॥
सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी। दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता ॥०३-६७-१०॥
तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव। प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च ॥०३-६७-११॥
एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि। वायुना धूयमानो हि वनं दहति पावकः ॥०३-६७-१२॥
भर्तव्या रक्षणीया च पत्नी हि पतिना सदा। तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव ॥०३-६७-१३॥
ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा। संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् ॥०३-६७-१४॥
स कुरुष्व महेष्वास दयां मयि नरर्षभ। आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम् ॥०३-६७-१५॥
एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन। स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते ॥०३-६७-१६॥
यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः। तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः ॥०३-६७-१७॥
यथा च वो न जानीयाच्चरतो भीमशासनात्। पुनरागमनं चैव तथा कार्यमतन्द्रितैः ॥०३-६७-१८॥
यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत्। यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम् ॥०३-६७-१९॥
एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम्। नलं मृगयितुं राजंस्तथा व्यसनिनं तदा ॥०३-६७-२०॥
ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान्। अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः ॥०३-६७-२१॥
तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते। श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम् ॥०३-६७-२२॥