03.068
बृहदश्व उवाच॥
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः। प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ॥०३-६८-१॥
नैषधं मृगयानेन दमयन्ति दिवानिशम्। अयोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः ॥०३-६८-२॥
श्रावितश्च मया वाक्यं त्वदीयं स महाजने। ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ॥०३-६८-३॥
तच्छ्रुत्वा नाब्रवीत्किञ्चिदृतुपर्णो नराधिपः। न च पारिषदः कश्चिद्भाष्यमाणो मयासकृत् ॥०३-६८-४॥
अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत्। ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः ॥०३-६८-५॥
सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः। शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने ॥०३-६८-६॥
स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः। कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत ॥०३-६८-७॥
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः। आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ॥ रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ॥०३-६८-८॥
विषमस्थेन मूढेन परिभ्रष्टसुखेन च। यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ॥०३-६८-९॥
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः। आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥०३-६८-१०॥
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम्। भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति ॥०३-६८-११॥
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः। श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय ॥०३-६८-१२॥
एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते। दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत ॥०३-६८-१३॥
अयमर्थो न संवेद्यो भीमे मातः कथञ्चन। त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् ॥०३-६८-१४॥
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम्। तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि ॥०३-६८-१५॥
यथा चाहं समानीता सुदेवेनाशु बान्धवान्। तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् ॥ समानेतुं नलं मातरयोध्यां नगरीमितः ॥०३-६८-१६॥
विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम्। अर्चयामास वैदर्भी धनेनातीव भामिनी ॥०३-६८-१७॥
नले चेहागते विप्र भूयो दास्यामि ते वसु। त्वया हि मे बहु कृतं यथा नान्यः करिष्यति ॥ यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम ॥०३-६८-१८॥
एवमुक्तोऽर्चयित्वा तामाशीर्वादैः सुमङ्गलैः। गृहानुपययौ चापि कृतार्थः स महामनाः ॥०३-६८-१९॥
ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर। अब्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता ॥०३-६८-२०॥
गत्वा सुदेव नगरीमयोध्यावासिनं नृपम्। ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती ॥ आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् ॥०३-६८-२१॥
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः। यथा च गणितः कालः श्वोभूते स भविष्यति ॥०३-६८-२२॥
यदि सम्भावनीयं ते गच्छ शीघ्रमरिंदम। सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति ॥ न हि स ज्ञायते वीरो नलो जीवन्मृतोऽपि वा ॥०३-६८-२३॥
एवं तया यथोक्तं वै गत्वा राजानमब्रवीत्। ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा ॥०३-६८-२४॥