Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.069
बृहदश्व उवाच॥
श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः। सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥०३-६९-१॥
विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम्। एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥०३-६९-२॥
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह। व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥०३-६९-३॥
दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता। अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान् ॥०३-६९-४॥
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी। मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना ॥०३-६९-५॥
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः। स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा ॥ मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ॥०३-६९-६॥
न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः। यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् ॥ ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ॥०३-६९-७॥
इति निश्चित्य मनसा बाहुको दीनमानसः। कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम् ॥०३-६९-८॥
प्रतिजानामि ते सत्यं गमिष्यसि नराधिप। एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ॥०३-६९-९॥
ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः। अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया ॥०३-६९-१०॥
स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः। अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥०३-६९-११॥
तेजोबलसमायुक्तान्कुलशीलसमन्वितान्। वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् ॥ शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः ॥०३-६९-१२॥
दृष्ट्वा तानब्रवीद्राजा किञ्चित्कोपसमन्वितः। किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् ॥०३-६९-१३॥
कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम। महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः ॥०३-६९-१४॥
बाहुक उवाच॥
एते हया गमिष्यन्ति विदर्भान्नात्र संशयः। अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते ॥०३-६९-१५॥
ऋतुपर्ण उवाच॥
त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक। यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय ॥०३-६९-१६॥
बृहदश्व उवाच॥
ततः सदश्वांश्चतुरः कुलशीलसमन्वितान्। योजयामास कुशलो जवयुक्तान्रथे नरः ॥०३-६९-१७॥
ततो युक्तं रथं राजा समारोहत्त्वरान्वितः। अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ॥०३-६९-१८॥
ततो नरवरः श्रीमान्नलो राजा विशां पते। सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥०३-६९-१९॥
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः। सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥०३-६९-२०॥
ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः। समुत्पेतुरिवाकाशं रथिनं मोहयन्निव ॥०३-६९-२१॥
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः। अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ ॥०३-६९-२२॥
रथघोषं तु तं श्रुत्वा हयसङ्ग्रहणं च तत्। वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥०३-६९-२३॥
किं नु स्यान्मातलिरयं देवराजस्य सारथिः। तथा हि लक्षणं वीरे बाहुके दृश्यते महत् ॥०३-६९-२४॥
शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित्। मानुषं समनुप्राप्तो वपुः परमशोभनम् ॥०३-६९-२५॥
उताहो स्विद्भवेद्राजा नलः परपुरञ्जयः। सोऽयं नृपतिरायात इत्येवं समचिन्तयत् ॥०३-६९-२६॥
अथ वा यां नलो वेद विद्यां तामेव बाहुकः। तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥०३-६९-२७॥
अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च। नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति ॥०३-६९-२८॥
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम्। दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः ॥०३-६९-२९॥
भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति। प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः ॥०३-६९-३०॥
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः। नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ॥०३-६९-३१॥
एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत्। हृदयेन महाराज पुण्यश्लोकस्य सारथिः ॥०३-६९-३२॥
ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम्। चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ॥०३-६९-३३॥
बलं वीर्यं तथोत्साहं हयसङ्ग्रहणं च तत्। परं यत्नं च सम्प्रेक्ष्य परां मुदमवाप ह ॥०३-६९-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.