03.070
बृहदश्व उवाच॥
स नदीः पर्वतांश्चैव वनानि च सरांसि च। अचिरेणातिचक्राम खेचरः खे चरन्निव ॥०३-७०-१॥
तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः। उत्तरीयमथापश्यद्भ्रष्टं परपुरञ्जयः ॥०३-७०-२॥
ततः स त्वरमाणस्तु पटे निपतिते तदा। ग्रहीष्यामीति तं राजा नलमाह महामनाः ॥०३-७०-३॥
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान्। वार्ष्णेयो यावदेतं मे पटमानयतामिति ॥०३-७०-४॥
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव। योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः ॥०३-७०-५॥
एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः। आससाद वने राजन्फलवन्तं बिभीतकम् ॥०३-७०-६॥
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत। ममापि सूत पश्य त्वं सङ्ख्याने परमं बलम् ॥०३-७०-७॥
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन। नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ॥०३-७०-८॥
वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक। पतितानि च यान्यत्र तत्रैकमधिकं शतम् ॥ एकपत्राधिकं पत्रं फलमेकं च बाहुक ॥०३-७०-९॥
पञ्च कोट्योऽथ पत्राणां द्वयोरपि च शाखयोः। प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः ॥ आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ॥०३-७०-१०॥
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत्। परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ॥०३-७०-११॥
अथ ते गणिते राजन्विद्यते न परोक्षता। प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम् ॥०३-७०-१२॥
अहं हि नाभिजानामि भवेदेवं न वेति च। सङ्ख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप ॥ मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ॥०३-७०-१३॥
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम्। बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ॥०३-७०-१४॥
प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान्। एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ॥०३-७०-१५॥
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन। त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक ॥०३-७०-१६॥
त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद। शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि ॥०३-७०-१७॥
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक। विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे ॥०३-७०-१८॥
अथाब्रवीद्बाहुकस्तं सङ्ख्यायेमं बिभीतकम्। ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम ॥०३-७०-१९॥
अकाम इव तं राजा गणयस्वेत्युवाच ह। सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ॥०३-७०-२०॥
ततः स विस्मयाविष्टो राजानमिदमब्रवीत्। गणयित्वा यथोक्तानि तावन्त्येव फलानि च ॥०३-७०-२१॥
अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम्। श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञायते नृप ॥०३-७०-२२॥
तमुवाच ततो राजा त्वरितो गमने तदा। विद्ध्यक्षहृदयज्ञं मां सङ्ख्याने च विशारदम् ॥०३-७०-२३॥
बाहुकस्तमुवाचाथ देहि विद्यामिमां मम। मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ ॥०३-७०-२४॥
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात्। हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः ॥०३-७०-२५॥
यथेष्टं त्वं गृहाणेदमक्षाणां हृदयं परम्। निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक ॥ एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ॥०३-७०-२६॥
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः। कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् ॥०३-७०-२७॥
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः। स तेन कर्शितो राजा दीर्घकालमनात्मवान् ॥०३-७०-२८॥
ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः। तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ॥०३-७०-२९॥
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः। कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ॥०३-७०-३०॥
इन्द्रसेनस्य जननी कुपिता माशपत्पुरा। यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः ॥०३-७०-३१॥
अवसं त्वयि राजेन्द्र सुदुःखमपराजित। विषेण नागराजस्य दह्यमानो दिवानिशम् ॥०३-७०-३२॥
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः। मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति ॥०३-७०-३३॥
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः। ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् ॥ कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै ॥०३-७०-३४॥
ततो गतज्वरो राजा नैषधः परवीरहा। सम्प्रनष्टे कलौ राजन्सङ्ख्यायाथ फलान्युत ॥०३-७०-३५॥
मुदा परमया युक्तस्तेजसा च परेण ह। रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः ॥ बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ॥०३-७०-३६॥
हयोत्तमानुत्पततो द्विजानिव पुनः पुनः। नलः सञ्चोदयामास प्रहृष्टेनान्तरात्मना ॥०३-७०-३७॥
विदर्भाभिमुखो राजा प्रययौ स महामनाः। नले तु समतिक्रान्ते कलिरप्यगमद्गृहान्॥०३-७०-३८॥
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपते। विमुक्तः कलिना राजन्रूपमात्रवियोजितः ॥०३-७०-३९॥