Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.071
बृहदश्व उवाच॥
ततो विदर्भान्सम्प्राप्तं सायाह्ने सत्यविक्रमम्। ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ॥०३-७१-१॥
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम्। नादयन्रथघोषेण सर्वाः सोपदिशो दश ॥०३-७१-२॥
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः। श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ ॥०३-७१-३॥
दमयन्ती च शुश्राव रथघोषं नलस्य तम्। यथा मेघस्य नदतो गम्भीरं जलदागमे ॥०३-७१-४॥
नलेन सङ्गृहीतेषु पुरेव नलवाजिषु। सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ॥०३-७१-५॥
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः। हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः ॥०३-७१-६॥
ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा। प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह ॥०३-७१-७॥
दमयन्त्युवाच॥
यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम्। मम ह्लादयते चेतो नल एष महीपतिः ॥०३-७१-८॥
अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि। असङ्ख्येयगुणं वीरं विनशिष्याम्यसंशयम् ॥०३-७१-९॥
यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम्। प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् ॥०३-७१-१०॥
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः। अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम् ॥०३-७१-११॥
यदि मां सिंहविक्रान्तो मत्तवारणवारणः। नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् ॥०३-७१-१२॥
न स्मराम्यनृतं किञ्चिन्न स्मराम्यनुपाकृतम्। न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ॥०३-७१-१३॥
प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः। रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः ॥०३-७१-१४॥
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम्। हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥०३-७१-१५॥
बृहदश्व उवाच॥
एवं विलपमाना सा नष्टसञ्ज्ञेव भारत। आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ॥०३-७१-१६॥
ततो मध्यमकक्षायां ददर्श रथमास्थितम्। ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ॥०३-७१-१७॥
ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात्। हयांस्तानवमुच्याथ स्थापयामासतू रथम् ॥०३-७१-१८॥
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः। उपतस्थे महाराज भीमं भीमपराक्रमम् ॥०३-७१-१९॥
तं भीमः प्रतिजग्राह पूजया परया ततः। अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ॥०३-७१-२०॥
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत। नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ॥०३-७१-२१॥
ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः। राजानं राजपुत्रं वा न स्म पश्यति कञ्चन ॥ नैव स्वयंवरकथां न च विप्रसमागमम् ॥०३-७१-२२॥
ततो विगणयन्राजा मनसा कोसलाधिपः। आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः ॥०३-७१-२३॥
राजापि च स्मयन्भीमो मनसाभिविचिन्तयत्। अधिकं योजनशतं तस्यागमनकारणम् ॥०३-७१-२४॥
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम्। अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् ॥०३-७१-२५॥
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत्। विश्राम्यतामिति वदन्क्लान्तोऽसीति पुनः पुनः ॥०३-७१-२६॥
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः। राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ॥०३-७१-२७॥
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे। बाहुको रथमास्थाय रथशालामुपागमत् ॥०३-७१-२८॥
स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः। स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ॥०३-७१-२९॥
दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम्। सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥०३-७१-३०॥
चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः। नलस्येव महानासीन्न च पश्यामि नैषधम् ॥०३-७१-३१॥
वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता। तेनास्य रथनिर्घोषो नलस्येव महानभूत् ॥०३-७१-३२॥
आहो स्विदृतुपर्णोऽपि यथा राजा नलस्तथा। ततोऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते ॥०३-७१-३३॥
एवं वितर्कयित्वा तु दमयन्ती विशां पते। दूतीं प्रस्थापयामास नैषधान्वेषणे नृप ॥०३-७१-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.