03.072
दमयन्त्युवाच॥
गच्छ केशिनि जानीहि क एष रथवाहकः। उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः ॥०३-७२-१॥
अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता। पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते ॥०३-७२-२॥
अत्र मे महती शङ्का भवेदेष नलो नृपः। तथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः ॥०३-७२-३॥
ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा। प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते ॥०३-७२-४॥
बृहदश्व उवाच॥
एवं समाहिता गत्वा दूती बाहुकमब्रवीत्। दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत ॥०३-७२-५॥
केशिन्युवाच॥
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम्। दमयन्त्या वचः साधु निबोध पुरुषर्षभ ॥०३-७२-६॥
कदा वै प्रस्थिता यूयं किमर्थमिह चागताः। तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ॥०३-७२-७॥
बाहुक उवाच॥
श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना। द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि ॥०३-७२-८॥
श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः। हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः ॥०३-७२-९॥
केशिन्युवाच॥
अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः। त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् ॥०३-७२-१०॥
बाहुक उवाच॥
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः। स नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः ॥०३-७२-११॥
अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः। ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् ॥०३-७२-१२॥
केशिन्युवाच॥
अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः। कथञ्चित्त्वयि वैतेन कथितं स्यात्तु बाहुक ॥०३-७२-१३॥
बाहुक उवाच॥
इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः। गतस्ततो यथाकामं नैष जानाति नैषधम् ॥०३-७२-१४॥
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि। गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः ॥०३-७२-१५॥
आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा। न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित् ॥०३-७२-१६॥
केशिन्युवाच॥
योऽसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा। इमानि नारीवाक्यानि कथयानः पुनः पुनः ॥०३-७२-१७॥
क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम। उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥०३-७२-१८॥
सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी। दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता ॥०३-७२-१९॥
तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव। प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च ॥०३-७२-२०॥
तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते। तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता ॥०३-७२-२१॥
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल। यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ॥०३-७२-२२॥
बृहदश्व उवाच॥
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन। हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने ॥०३-७२-२३॥
स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः। बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत् ॥०३-७२-२४॥
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः। आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ॥०३-७२-२५॥
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन। प्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः ॥०३-७२-२६॥
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः। आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥०३-७२-२७॥
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम्। भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् ॥०३-७२-२८॥
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः। न बाष्पमशकत्सोढुं प्ररुरोद च भारत ॥०३-७२-२९॥
ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्। तत्सर्वं कथितं चैव विकारं चैव तस्य तम् ॥०३-७२-३०॥