03.073
बृहदश्व उवाच॥
दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा। शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ॥०३-७३-१॥
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके। आब्रुवाणा समीपस्था चरितान्यस्य लक्षय ॥०३-७३-२॥
यदा च किञ्चित्कुर्यात्स कारणं तत्र भामिनि। तत्र सञ्चेष्टमानस्य संलक्ष्यं ते विचेष्टितम् ॥०३-७३-३॥
न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि। याचते न जलं देयं सम्यगत्वरमाणया ॥०३-७३-४॥
एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय। यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ॥०३-७३-५॥
दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी। निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत् ॥०३-७३-६॥
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्। निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् ॥०३-७३-७॥
केशिन्युवाच॥
दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित्। दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः ॥०३-७३-८॥
ह्रस्वमासाद्य सञ्चारं नासौ विनमते क्वचित्। तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् ॥ सङ्कटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ॥०३-७३-९॥
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः। प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् ॥०३-७३-१०॥
तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः। स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा ॥०३-७३-११॥
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः। तृणमुष्टिं समादाय आविध्यैनं समादधत् ॥०३-७३-१२॥
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः। तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता ॥०३-७३-१३॥
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया। यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे ॥०३-७३-१४॥
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम्। अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ॥०३-७३-१५॥
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः। मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ ॥०३-७३-१६॥
भूय एव सुगन्धीनि हृषितानि भवन्ति च। एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता ॥०३-७३-१७॥
बृहदश्व उवाच॥
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्। अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥०३-७३-१८॥
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम्। केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत् ॥०३-७३-१९॥
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्। महानसाच्छृतं मांसं समादायैहि भामिनि ॥०३-७३-२०॥
सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च। अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी ॥ दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ॥०३-७३-२१॥
सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा। प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता ॥०३-७३-२२॥
वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः। मिथुनं प्रेषयामास केशिन्या सह भारत ॥०३-७३-२३॥
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः। अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् ॥०३-७३-२४॥
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ। भृशं दुःखपरीतात्मा सस्वरं प्ररुदोद ह ॥०३-७३-२५॥
नैषधो दर्शयित्वा तु विकारमसकृत्तदा। उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ॥०३-७३-२६॥
इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः। ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ॥०३-७३-२७॥
बहुशः सम्पतन्तीं त्वां जनः शङ्केत दोषतः। वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते ॥०३-७३-२८॥