Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.074
बृहदश्व उवाच॥
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः। आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ॥०३-७४-१॥
दमयन्ती ततो भूयः प्रेषयामास केशिनीम्। मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ॥०३-७४-२॥
परीक्षितो मे बहुशो बाहुको नलशङ्कया। रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम् ॥०३-७४-३॥
स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि। विदितं वाथ वाज्ञातं पितुर्मे संविधीयताम् ॥०३-७४-४॥
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत्। दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः ॥०३-७४-५॥
सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ। नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः ॥०३-७४-६॥
तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा। तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ॥०३-७४-७॥
ततः काषायवसना जटिला मलपङ्किनी। दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ॥०३-७४-८॥
दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक। सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् ॥०३-७४-९॥
अनागसं प्रियां भार्यां विजने श्रममोहिताम्। अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम् ॥०३-७४-१०॥
किं नु तस्य मया कार्यमपराद्धं महीपतेः। यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम् ॥०३-७४-११॥
साक्षाद्देवानपाहाय वृतो यः स मया पुरा। अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम् ॥०३-७४-१२॥
अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम्। भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम् ॥०३-७४-१३॥
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिंदम। शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु ॥०३-७४-१४॥
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत्। परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत् ॥०३-७४-१५॥
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम्। कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ॥०३-७४-१६॥
त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा। वनस्थया दुःखितया शोचन्त्या मां विवाससम् ॥०३-७४-१७॥
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः। त्वच्छापदग्धः सततं सोऽग्नाविव समाहितः ॥०३-७४-१८॥
मम च व्यवसायेन तपसा चैव निर्जितः। दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ॥०३-७४-१९॥
विमुच्य मां गतः पापः स ततोऽहमिहागतः। त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम्॥०३-७४-२०॥
कथं नु नारी भर्तारमनुरक्तमनुव्रतम्। उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ॥०३-७४-२१॥
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात्। भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ॥०३-७४-२२॥
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः। श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिरुपस्थितः ॥०३-७४-२३॥
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम्। प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ॥०३-७४-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.