03.075
दमयन्त्युवाच॥
न मामर्हसि कल्याण पापेन परिशङ्कितुम्। मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ॥०३-७५-१॥
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः। वाक्यानि मम गाथाभिर्गायमाना दिशो दश ॥०३-७५-२॥
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव। अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ॥०३-७५-३॥
तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते। उपायोऽयं मया दृष्टो नैषधानयने तव ॥०३-७५-४॥
त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते। समर्थो योजनशतं गन्तुमश्वैर्नराधिप ॥०३-७५-५॥
तथा चेमौ महीपाल भजेऽहं चरणौ तव। यथा नासत्कृतं किञ्चिन्मनसापि चराम्यहम् ॥०३-७५-६॥
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः। एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥०३-७५-७॥
तथा चरति तिग्मांशुः परेण भुवनं सदा। स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥०३-७५-८॥
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत्। स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥०३-७५-९॥
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै। विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम् ॥०३-७५-१०॥
एवमुक्ते ततो वायुरन्तरिक्षादभाषत। नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ॥०३-७५-११॥
राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः। साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ॥०३-७५-१२॥
उपायो विहितश्चायं त्वदर्थमतुलोऽनया। न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिह ॥०३-७५-१३॥
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते। नात्र शङ्का त्वया कार्या सङ्गच्छ सह भार्यया ॥०३-७५-१४॥
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह। देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ॥०३-७५-१५॥
तदद्भुततमं दृष्ट्वा नलो राजाथ भारत। दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिंदमः ॥०३-७५-१६॥
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः। संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् ॥०३-७५-१७॥
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा। प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ॥०३-७५-१८॥
भैमीमपि नलो राजा भ्राजमानो यथा पुरा। सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ॥०३-७५-१९॥
ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना। परीता तेन दुःखेन निशश्वासायतेक्षणा ॥०३-७५-२०॥
तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता। सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता ॥०३-७५-२१॥
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च। भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ॥०३-७५-२२॥
ततोऽब्रवीन्महाराजः कृतशौचमहं नलम्। दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् ॥०३-७५-२३॥
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्। वने विचरितं सर्वमूषतुर्मुदितौ नृप ॥०३-७५-२४॥
स चतुर्थे ततो वर्षे सङ्गम्य सह भार्यया। सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ॥०३-७५-२५॥
दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम्। अर्धसञ्जातसस्येव तोयं प्राप्य वसुन्धरा ॥०३-७५-२६॥
सैवं समेत्य व्यपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा। रराज भैमी समवाप्तकामा; शीतांशुना रात्रिरिवोदितेन ॥०३-७५-२७॥