Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.076
बृहदश्व उवाच॥
अथ तां व्युषितो रात्रिं नलो राजा स्वलङ्कृतः। वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ॥०३-७६-१॥
ततोऽभिवादयामास प्रयतः श्वशुरं नलः। तस्यानु दमयन्ती च ववन्दे पितरं शुभा ॥०३-७६-२॥
तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा। यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः ॥ नलेन सहितां तत्र दमयन्तीं पतिव्रताम् ॥०३-७६-३॥
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि। परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ॥०३-७६-४॥
ततो बभूव नगरे सुमहान्हर्षनिस्वनः। जनस्य सम्प्रहृष्टस्य नलं दृष्ट्वा तथागतम् ॥०३-७६-५॥
अशोभयच्च नगरं पताकाध्वजमालिनम्। सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा ॥०३-७६-६॥
द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः। अर्चितानि च सर्वाणि देवतायतनानि च ॥०३-७६-७॥
ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम्। दमयन्त्या समायुक्तं जहृषे च नराधिपः ॥०३-७६-८॥
तमानाय्य नलो राजा क्षमयामास पार्थिवम्। स च तं क्षमयामास हेतुभिर्बुद्धिसंमतः ॥०३-७६-९॥
स सत्कृतो महीपालो नैषधं विस्मयान्वितः। दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ॥०३-७६-१०॥
कच्चित्तु नापराधं ते कृतवानस्मि नैषध। अज्ञातवासं वसतो मद्गृहे निषधाधिप ॥०३-७६-११॥
यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित्। मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि ॥०३-७६-१२॥
नल उवाच॥
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव। कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव ॥०३-७६-१३॥
पूर्वं ह्यसि सखा मेऽसि सम्बन्धी च नराधिप। अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ॥०३-७६-१४॥
सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि। न तथा स्वगृहे राजन्यथा तव गृहे सदा ॥०३-७६-१५॥
इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति। तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ॥०३-७६-१६॥
बृहदश्व उवाच॥
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः। स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ॥०३-७६-१७॥
ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः। सूतमन्यमुपादाय ययौ स्वपुरमेव हि ॥०३-७६-१८॥
ऋतुपर्णे प्रतिगते नलो राजा विशां पते। नगरे कुण्डिने कालं नातिदीर्घमिवावसत् ॥०३-७६-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.