Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.077
बृहदश्व उवाच॥
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः। पुरादल्पपरीवारो जगाम निषधान्प्रति ॥०३-७७-१॥
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः। पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ॥०३-७७-२॥
स कम्पयन्निव महीं त्वरमाणो महीपतिः। प्रविवेशातिसंरब्धस्तरसैव महामनाः ॥०३-७७-३॥
ततः पुष्करमासाद्य वीरसेनसुतो नलः। उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् ॥०३-७७-४॥
दमयन्ती च यच्चान्यन्मया वसु समर्जितम्। एष वै मम संन्यासस्तव राज्यं तु पुष्कर ॥०३-७७-५॥
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः। एकपाणेन भद्रं ते प्राणयोश्च पणावहे ॥०३-७७-६॥
जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु। प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते ॥०३-७७-७॥
न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम्। द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ॥०३-७७-८॥
वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा। येन तेनाप्युपायेन वृद्धानामिति शासनम् ॥०३-७७-९॥
द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर। कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः ॥०३-७७-१०॥
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव। ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम् ॥०३-७७-११॥
दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध। दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् ॥ दिष्ट्या च ध्रियसे राजन्सदारोऽरिनिबर्हण ॥०३-७७-१२॥
धनेनानेन वैदर्भी जितेन समलङ्कृता। मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ॥०३-७७-१३॥
नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध। देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः ॥०३-७७-१४॥
जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम्। कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि ॥०३-७७-१५॥
श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः। इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः ॥०३-७७-१६॥
स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः। पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि ॥०३-७७-१७॥
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च। एकपाणेन भद्रं ते नलेन स पराजितः ॥ सरत्नकोशनिचयः प्राणेन पणितोऽपि च ॥०३-७७-१८॥
जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत्। मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् ॥०३-७७-१९॥
वैदर्भी न त्वया शक्या राजापसद वीक्षितुम्। तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ॥०३-७७-२०॥
न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा। कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे ॥ नाहं परकृतं दोषं त्वय्याधास्ये कथञ्चन ॥०३-७७-२१॥
यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते। तथैव च मम प्रीतिस्त्वयि वीर न संशयः ॥०३-७७-२२॥
सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति। पुष्कर त्वं हि मे भ्राता सञ्जीवस्व शतं समाः ॥०३-७७-२३॥
एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः। स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः ॥०३-७७-२४॥
सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम्। पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ॥०३-७७-२५॥
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी। यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ॥०३-७७-२६॥
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः। प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः ॥०३-७७-२७॥
महत्या सेनया राजन्विनीतैः परिचारकैः। भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ॥०३-७७-२८॥
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम्। प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम् ॥ प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः ॥०३-७७-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.