Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.078
बृहदश्व उवाच॥
प्रशान्ते तु पुरे हृष्टे सम्प्रवृत्ते महोत्सवे। महत्या सेनया राजा दमयन्तीमुपानयत् ॥०३-७८-१॥
दमयन्तीमपि पिता सत्कृत्य परवीरहा। प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः ॥०३-७८-२॥
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः। वर्तयामास मुदितो देवराडिव नन्दने ॥०३-७८-३॥
तथा प्रकाशतां यातो जम्बूद्वीपेऽथ राजसु। पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः ॥०३-७८-४॥
ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः। तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात् ॥०३-७८-५॥
दुःखमेतादृशं प्राप्तो नलः परपुरञ्जयः। देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ ॥०३-७८-६॥
एकाकिनैव सुमहन्नलेन पृथिवीपते। दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः ॥०३-७८-७॥
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव। रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन् ॥०३-७८-८॥
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः। नित्यमन्वास्यसे राजंस्तत्र का परिदेवना ॥०३-७८-९॥
इतिहासमिमं चापि कलिनाशनमुच्यते। शक्यमाश्वासितुं श्रुत्वा त्वद्विधेन विशां पते ॥०३-७८-१०॥
अस्थिरत्वं च सञ्चिन्त्य पुरुषार्थस्य नित्यदा। तस्याये च व्यये चैव समाश्वसिहि मा शुचः ॥०३-७८-११॥
ये चेदं कथयिष्यन्ति नलस्य चरितं महत्। श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति ॥ अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति ॥०३-७८-१२॥
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम्। पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम् ॥ अरोगः प्रीतिमांश्चैव भविष्यति न संशयः ॥०३-७८-१३॥
भयं पश्यसि यच्च त्वमाह्वयिष्यति मां पुनः। अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव ॥०३-७८-१४॥
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम। उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते ॥०३-७८-१५॥
वैशम्पायन उवाच॥
ततो हृष्टमना राजा बृहदश्वमुवाच ह। भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः ॥०३-७८-१६॥
ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने। दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः ॥०३-७८-१७॥
बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम्। वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम् ॥०३-७८-१८॥
ब्राह्मणेभ्यस्तपस्विभ्यः सम्पतद्भ्यस्ततस्ततः। तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः ॥०३-७८-१९॥
इति पार्थो महाबाहुर्दुरापं तप आस्थितः। न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति ॥०३-७८-२०॥
यथा धनञ्जयः पार्थस्तपस्वी नियतव्रतः। मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव ॥०३-७८-२१॥
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने। अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् ॥०३-७८-२२॥
दह्यमानेन तु हृदा शरणार्थी महावने। ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः ॥०३-७८-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.