03.079
जनमेजय उवाच॥
भगवन्काम्यकात्पार्थे गते मे प्रपितामहे। पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम् ॥०३-७९-१॥
स हि तेषां महेष्वासो गतिरासीदनीकजित्। आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे ॥०३-७९-२॥
तेनेन्द्रसमवीर्येण सङ्ग्रामेष्वनिवर्तिना। विनाभूता वने वीराः कथमासन्पितामहाः ॥०३-७९-३॥
वैशम्पायन उवाच॥
गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि। बभूवुः कौरवेयास्ते दुःखशोकपरायणाः ॥०३-७९-४॥
आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः। अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः ॥०३-७९-५॥
वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा। कुबेरेण यथा हीनं वनं चैत्ररथं तथा ॥०३-७९-६॥
तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय। मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा ॥०३-७९-७॥
ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः। निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् ॥०३-७९-८॥
नित्यं हि पुरुषव्याघ्रा वन्याहारमरिंदमाः। विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् ॥०३-७९-९॥
एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः। अहृष्टमनसः सर्वे गते राजन्धनञ्जये ॥०३-७९-१०॥
अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम्। स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥०३-७९-११॥
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना। तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे ॥०३-७९-१२॥
शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् ॥०३-७९-१२॥
बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम्। न तथा रमणीयं मे तमृते सव्यसाचिनम् ॥०३-७९-१३॥
नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम्। तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे ॥०३-७९-१४॥
यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः। न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम् ॥०३-७९-१५॥
तथा लालप्यमानां तां निशम्य परवीरहा। भीमसेनो महाराज द्रौपदीमिदमब्रवीत् ॥०३-७९-१६॥
मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे। तन्मे प्रीणाति हृदयममृतप्राशनोपमम् ॥०३-७९-१७॥
यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ। मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ ॥०३-७९-१८॥
निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ। तमृते पुरुषव्याघ्रं नष्टसूर्यमिदं वनम् ॥०३-७९-१९॥
यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा। सुराणामपि यत्तानां पृतनासु न बिभ्यति ॥०३-७९-२०॥
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः। मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥०३-७९-२१॥
तमृते फल्गुनं वीरं न लभे काम्यके धृतिम्। शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् ॥०३-७९-२२॥
नकुल उवाच॥
य उदीचीं दिशं गत्वा जित्वा युधि महाबलान्। गन्धर्वमुख्याञ्शतशो हयाँल्लेभे स वासविः ॥०३-७९-२३॥
राजंस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः। प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ ॥०३-७९-२४॥
तमृते भीमधन्वानं भीमादवरजं वने। कामये काम्यके वासं नेदानीममरोपमम् ॥०३-७९-२५॥
सहदेव उवाच॥
यो धनानि च कन्याश्च युधि जित्वा महारथान्। आजहार पुरा राज्ञे राजसूये महाक्रतौ ॥०३-७९-२६॥
यः समेतान्मृधे जित्वा यादवानमितद्युतिः। सुभद्रामाजहारैको वासुदेवस्य संमते ॥०३-७९-२७॥
तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामुपनिवेशने। हृदयं मे महाराज न शाम्यति कदाचन ॥०३-७९-२८॥
वनादस्माद्विवासं तु रोचयेऽहमरिंदम। न हि नस्तमृते वीरं रमणीयमिदं वनम् ॥०३-७९-२९॥