Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.080
तीर्थयात्रापर्व
वैशम्पायन उवाच॥
धनञ्जयोत्सुकास्ते तु वने तस्मिन्महारथाः। न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः ॥०३-८०-१॥
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम्। दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥०३-८०-२॥
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः। विबभावतिदीप्तौजा देवैरिव शतक्रतुः ॥०३-८०-३॥
यथा च वेदान्सावित्री याज्ञसेनी तथा सती। न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥०३-८०-४॥
प्रतिगृह्य तु तां पूजां नारदो भगवानृषिः। आश्वासयद्धर्मसुतं युक्तरूपमिवानघ ॥०३-८०-५॥
उवाच च महात्मानं धर्मराजं युधिष्ठिरम्। ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते ॥०३-८०-६॥
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह। उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम् ॥०३-८०-७॥
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते। कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत ॥०३-८०-८॥
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ। संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि ॥०३-८०-९॥
प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः। किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि ॥०३-८०-१०॥
नारद उवाच॥
शृणु राजन्नवहितो यथा भीष्मेण भारत। पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥०३-८०-११॥
पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः। पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा ॥०३-८०-१२॥
शुभे देशे महाराज पुण्ये देवर्षिसेविते। गङ्गाद्वारे महातेजा देवगन्धर्वसेविते ॥०३-८०-१३॥
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः। ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा ॥०३-८०-१४॥
कस्यचित्त्वथ कालस्य जपन्नेव महातपाः। ददर्शाद्भुतसङ्काशं पुलस्त्यमृषिसत्तमम् ॥०३-८०-१५॥
स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया। प्रहर्षमतुलं लेभे विस्मयं च परं ययौ ॥०३-८०-१६॥
उपस्थितं महाराज पूजयामास भारत। भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥०३-८०-१७॥
शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः। नाम सङ्कीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥०३-८०-१८॥
भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत। तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः ॥०३-८०-१९॥
एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः। वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ॥०३-८०-२०॥
तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम्। भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् ॥०३-८०-२१॥
पुलस्त्य उवाच॥
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च। सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः ॥०३-८०-२२॥
यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ। तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि ॥०३-८०-२३॥
अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते। यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ ॥०३-८०-२४॥
भीष्म उवाच॥
प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते। कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् ॥०३-८०-२५॥
यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर। वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि ॥०३-८०-२६॥
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः। तमहं श्रोतुमिच्छामि पृथक्सङ्कीर्तितं त्वया ॥०३-८०-२७॥
प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम। किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन ॥०३-८०-२८॥
पुलस्त्य उवाच॥
हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम्। तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ॥०३-८०-२९॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्। विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥०३-८०-३०॥
प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः। अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते ॥०३-८०-३१॥
अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः। विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते ॥०३-८०-३२॥
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः। आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥०३-८०-३३॥
ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम्। फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥०३-८०-३४॥
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते। बहूपकरणा यज्ञा नानासम्भारविस्तराः ॥०३-८०-३५॥
प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित्। नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः ॥०३-८०-३६॥
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर। तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर ॥०३-८०-३७॥
ऋषीणां परमं गुह्यमिदं भरतसत्तम। तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥०३-८०-३८॥
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च। अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥०३-८०-३९॥
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः। न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥०३-८०-४०॥
नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्। पुष्करं नाम विख्यातं महाभागः समाविशेत् ॥०३-८०-४१॥
दश कोटिसहस्राणि तीर्थानां वै महीपते। सांनिध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन ॥०३-८०-४२॥
आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः। गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो ॥०३-८०-४३॥
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा। दिव्ययोगा महाराज पुण्येन महतान्विताः ॥०३-८०-४४॥
मनसाप्यभिकामस्य पुष्कराणि मनस्विनः। पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥०३-८०-४५॥
तस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः। उवास परमप्रीतो देवदानवसंमतः ॥०३-८०-४६॥
पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः। सिद्धिं समभिसम्प्राप्ताः पुण्येन महतान्विताः ॥०३-८०-४७॥
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः। अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥०३-८०-४८॥
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः। तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते ॥०३-८०-४९॥
शाकमूलफलैर्वापि येन वर्तयते स्वयम्। तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः ॥ तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ॥०३-८०-५०॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम। न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः ॥०३-८०-५१॥
कार्त्तिक्यां तु विशेषेण योऽभिगच्छेत पुष्करम्। फलं तत्राक्षयं तस्य वर्धते भरतर्षभ ॥०३-८०-५२॥
सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः। उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत ॥ प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ॥०३-८०-५३॥
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा। पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ॥०३-८०-५४॥
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः। तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥०३-८०-५५॥
उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः। क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति ॥०३-८०-५६॥
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते। कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत् ॥०३-८०-५७॥
दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः। दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥०३-८०-५८॥
उष्य द्वादशरात्रं तु नियतो नियताशनः। प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत् ॥०३-८०-५९॥
जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम्। अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥०३-८०-६०॥
तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः। न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् ॥०३-८०-६१॥
जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम्। न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते ॥०३-८०-६२॥
अगस्त्यसर आसाद्य पितृदेवार्चने रतः। त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ॥०३-८०-६३॥
शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम्। कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् ॥०३-८०-६४॥
धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ। यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते ॥०३-८०-६५॥
अर्चयित्वा पितॄन्देवान्नियतो नियताशनः। सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥०३-८०-६६॥
प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत्। हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै ॥०३-८०-६७॥
महाकालं ततो गच्छेन्नियतो नियताशनः। कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥०३-८०-६८॥
ततो गच्छेत धर्मज्ञ पुण्यस्थानमुमापतेः। नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ॥०३-८०-६९॥
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत्। महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ॥०३-८०-७०॥
नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम्। तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥०३-८०-७१॥
दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः। अग्निष्टोममवाप्नोति विमानं चाधिरोहति ॥०३-८०-७२॥
चर्मण्वतीं समासाद्य नियतो नियताशनः। रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् ॥०३-८०-७३॥
ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम्। पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर ॥०३-८०-७४॥
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः। तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥०३-८०-७५॥
पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः। कपिलानां नरव्याघ्र शतस्य फलमश्नुते ॥०३-८०-७६॥
ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम्। यत्र संनिहितो नित्यं स्वयमेव हुताशनः ॥ देवतानां मुखं वीर अनलोऽनिलसारथिः ॥०३-८०-७७॥
तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः। अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥०३-८०-७८॥
ततो गत्वा सरस्वत्याः सागरस्य च सङ्गमे। गोसहस्रफलं प्राप्य स्वर्गलोके महीयते ॥ दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ ॥०३-८०-७९॥
त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः। प्रभासते यथा सोमो अश्वमेधं च विन्दति ॥०३-८०-८०॥
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम। विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ॥०३-८०-८१॥
वरदाने नरः स्नात्वा गोसहस्रफलं लभेत्। ततो द्वारवतीं गच्छेन्नियतो नियताशनः ॥ पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम् ॥०३-८०-८२॥
तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः। अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम॥०३-८०-८३॥
त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन। महादेवस्य सांनिध्यं तत्रैव भरतर्षभ ॥०३-८०-८४॥
सागरस्य च सिन्धोश्च सङ्गमं प्राप्य भारत। तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥०३-८०-८५॥
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ। प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा ॥०३-८०-८६॥
शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर। अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥०३-८०-८७॥
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ। तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ॥ दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् ॥०३-८०-८८॥
यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम्। तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् ॥ जन्मप्रभृति पापानि कृतानि नुदते नरः ॥०३-८०-८९॥
दृमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता। तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् ॥०३-८०-९०॥
जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना। पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् ॥०३-८०-९१॥
ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम्। गमनादेव तस्यां हि हयमेधमवाप्नुयात् ॥०३-८०-९२॥
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः। तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते ॥०३-८०-९३॥
तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ। तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ॥०३-८०-९४॥
सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम्। तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम् ॥०३-८०-९५॥
ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः। ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः ॥०३-८०-९६॥
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम्। तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात् ॥०३-८०-९७॥
रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम्। तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा ॥०३-८०-९८॥
अथ पञ्चनदं गत्वा नियतो नियताशनः। पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः ॥०३-८०-९९॥
ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम्। तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम ॥०३-८०-१००॥
देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः। गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् ॥०३-८०-१०१॥
गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम्। पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥०३-८०-१०२॥
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम्। अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ॥०३-८०-१०३॥
तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात्। सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥०३-८०-१०४॥
ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम्। पश्चिमायां तु सन्ध्यायामुपस्पृश्य यथाविधि ॥०३-८०-१०५॥
चरुं नरेन्द्र सप्तार्चेर्यथाशक्ति निवेदयेत्। पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ॥०३-८०-१०६॥
गवां शतसहस्रेण राजसूयशतेन च। अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः ॥०३-८०-१०७॥
ततो निवृत्तो राजेन्द्र वस्त्रापदमथाविशेत्। अभिगम्य महादेवमश्वमेधफलं लभेत् ॥०३-८०-१०८॥
मणिमन्तं समासाद्य ब्रह्मचारी समाहितः। एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ॥०३-८०-१०९॥
अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम्। प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ॥०३-८०-११०॥
त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम्। देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥०३-८०-१११॥
यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ। सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥०३-८०-११२॥
कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम्। तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत ॥०३-८०-११३॥
यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम्। पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः ॥०३-८०-११४॥
अर्धयोजनविस्तारां पञ्चयोजनमायताम्। एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम् ॥०३-८०-११५॥
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम्। यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः ॥ दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः ॥०३-८०-११६॥
गमनादेव राजेन्द्र दीर्घसत्रमरिंदम। राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥०३-८०-११७॥
ततो विनशनं गच्छेन्नियतो नियताशनः। गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती ॥ चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते ॥०३-८०-११८॥
स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत्। शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् ॥०३-८०-११९॥
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात्। शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् ॥ शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥०३-८०-१२०॥
सरस्वत्यां महाराज अनु संवत्सरं हि ते। स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा ॥०३-८०-१२१॥
तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा। गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ॥०३-८०-१२२॥
कुमारकोटिमासाद्य नियतः कुरुनन्दन। तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ गवामयमवाप्नोति कुलं चैव समुद्धरेत् ॥०३-८०-१२३॥
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः। पुरा यत्र महाराज ऋषिकोटिः समाहिता ॥ प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया ॥०३-८०-१२४॥
अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम्। एवं सम्प्रस्थिता राजन्नृषयः किल भारत ॥०३-८०-१२५॥
ततो योगेष्वरेणापि योगमास्थाय भूपते। तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् ॥०३-८०-१२६॥
सृष्टा कोटिस्तु रुद्राणामृषीणामग्रतः स्थिता। मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् ॥०३-८०-१२७॥
तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम्। भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् ॥ अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ॥०३-८०-१२८॥
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः। अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥०३-८०-१२९॥
ततो गच्छेत राजेन्द्र सङ्गमं लोकविश्रुतम्। सरस्वत्या महापुण्यमुपासन्ते जनार्दनम् ॥०३-८०-१३०॥
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः। अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ॥०३-८०-१३१॥
तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम्। सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥०३-८०-१३२॥
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप। सत्रावसानमासाद्य गोसहस्रफलं लभेत् ॥०३-८०-१३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.