Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.081
पुलस्त्य उवाच॥
ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम्। पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः ॥०३-८१-१॥
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्। य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते ॥०३-८१-२॥
तत्र मासं वसेद्वीर सरस्वत्यां युधिष्ठिर। यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥०३-८१-३॥
गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते। ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ॥०३-८१-४॥
मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर। पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति ॥०३-८१-५॥
गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह। राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥०३-८१-६॥
ततो मचक्रुकं राजन्द्वारपालं महाबलम्। यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् ॥०३-८१-७॥
ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम्। सततं नाम राजेन्द्र यत्र संनिहितो हरिः ॥०३-८१-८॥
तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम्। अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥०३-८१-९॥
ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम्। अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥०३-८१-१०॥
पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत्। ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप ॥दशाश्वमेधिके स्नात्वा तदेव लभते फलम् ॥०३-८१-११॥
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम्। अग्निष्टोममवाप्नोति नागलोकं च विन्दति ॥०३-८१-१२॥
ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम्। तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥०३-८१-१३॥
ततः पञ्चनदं गत्वा नियतो नियताशनः। कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥ अश्विनोस्तीर्थमासाद्य रूपवानभिजायते ॥०३-८१-१४॥
ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम्। विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत् ॥ तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत् ॥०३-८१-१५॥
ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत्। स्नात्वा फलमवाप्नोति राजसूयस्य मानवः ॥०३-८१-१६॥
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत्। कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह ॥ पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः ॥०३-८१-१७॥
ततो मुञ्जवटं नाम महादेवस्य धीमतः। तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ॥०३-८१-१८॥
तत्रैव च महाराज यक्षी लोकपरिश्रुता। तां चाभिगम्य राजेन्द्र पुण्याँल्लोकानवाप्नुयात् ॥०३-८१-१९॥
कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ। प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः ॥०३-८१-२०॥
संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः। जामदग्न्येन रामेण आहृते वै महात्मना ॥ कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति ॥०३-८१-२१॥
ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप। यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा ॥क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः ॥०३-८१-२२॥
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम्। पितरस्तर्पिताः सर्वे तथैव च पितामहाः ॥ ततस्ते पितरः प्रीता राममूचुर्महीपते ॥०३-८१-२३॥
राम राम महाभाग प्रीताः स्म तव भार्गव। अनया पितृभक्त्या च विक्रमेण च ते विभो ॥ वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते ॥०३-८१-२४॥
एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः। अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् ॥०३-८१-२५॥
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि। पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः ॥०३-८१-२६॥
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया। ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् ॥ ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ॥०३-८१-२७॥
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा। प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः ॥०३-८१-२८॥
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः। यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ॥०३-८१-२९॥
ततश्च पापान्मुक्तस्त्वं कर्मभिस्ते च पातिताः। ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ॥०३-८१-३०॥
ह्रदेष्वेतेषु यः स्नात्वा पितॄन्सन्तर्पयिष्यति। पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् ॥ ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् ॥०३-८१-३१॥
एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा। आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्दधुस्तदा ॥०३-८१-३२॥
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः। स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः ॥ राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम् ॥०३-८१-३३॥
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह। स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके ॥०३-८१-३४॥
कायशोधनमासाद्य तीर्थं भरतसत्तम। शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः ॥ शुद्धदेहश्च संयाति शुभाँल्लोकाननुत्तमान् ॥०३-८१-३५॥
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम्। लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ॥०३-८१-३६॥
लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम्। स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् ॥ श्रीतीर्थं च समासाद्य विन्दते श्रियमुत्तमाम् ॥०३-८१-३७॥
कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः। तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा ॥ कपिलानां सहस्रस्य फलं विन्दति मानवः ॥०३-८१-३८॥
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः। अर्चयित्वा पितॄन्देवानुपवासपरायणः ॥ अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ॥०३-८१-३९॥
गवाम्भवनमासाद्य तीर्थसेवी यथाक्रमम्। तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥०३-८१-४०॥
शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह। देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ॥०३-८१-४१॥
ततो गच्छेत राजेन्द्र द्वारपालमरन्तुकम्। तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ॥ तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ॥०३-८१-४२॥
ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप। ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ॥०३-८१-४३॥
ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम्। यत्र संनिहिता नित्यं पितरो दैवतैः सह ॥०३-८१-४४॥
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः। अश्वमेधमवाप्नोति पितृलोकं च गच्छति ॥०३-८१-४५॥
ततोऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम्। कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ॥ सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ॥०३-८१-४६॥
मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत। प्रजा विवर्धते राजन्ननन्तां चाश्नुते श्रियम् ॥०३-८१-४७॥
ततः शीतवनं गच्छेन्नियतो नियताशनः। तीर्थं तत्र महाराज महदन्यत्र दुर्लभम् ॥०३-८१-४८॥
पुनाति दर्शनादेव दण्डेनैकं नराधिप। केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत ॥०३-८१-४९॥
तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम्। यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः ॥०३-८१-५०॥
श्वानलोमापनयने तीर्थे भरतसत्तम। प्राणायामैर्निर्हरन्ति श्वलोमानि द्विजोत्तमाः ॥०३-८१-५१॥
पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम्। दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते ॥ तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् ॥०३-८१-५२॥
ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम्। यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः ॥ अवगाह्य तस्मिन्सरसि मानुषत्वमुपागताः ॥०३-८१-५३॥
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः। सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥०३-८१-५४॥
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते। आपगा नाम विख्याता नदी सिद्धनिषेविता ॥०३-८१-५५॥
श्यामाकभोजनं तत्र यः प्रयच्छति मानवः। देवान्पितॄंश्च उद्दिश्य तस्य धर्मफलं महत् ॥ एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥०३-८१-५६॥
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा। उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ॥०३-८१-५७॥
ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम्। ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत ॥०३-८१-५८॥
तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुङ्गव। केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः ॥०३-८१-५९॥
ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः। सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥०३-८१-६०॥
कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम्। अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः ॥०३-८१-६१॥
ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम्। कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम्॥ लभते सर्वकामान्हि स्वर्गलोकं च गच्छति॥०३-८१-६२॥
तिस्रः कोट्यस्तु तीर्थानां सरके कुरुनन्दन। रुद्रकोटिस्तथा कूपे ह्रदेषु च महीपते ॥ इलास्पदं च तत्रैव तीर्थं भरतसत्तम ॥०३-८१-६३॥
तत्र स्नात्वार्चयित्वा च पितॄन्देवांश्च भारत। न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ॥०३-८१-६४॥
किंदाने च नरः स्नात्वा किञ्जप्ये च महीपते। अप्रमेयमवाप्नोति दानं जप्यं च भारत ॥०३-८१-६५॥
कलश्यां चाप्युपस्पृश्य श्रद्दधानो जितेन्द्रियः। अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥०३-८१-६६॥
सरकस्य तु पूर्वेण नारदस्य महात्मनः। तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम् ॥०३-८१-६७॥
तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत। नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोति दुर्लभान् ॥०३-८१-६८॥
शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत्। तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत् ॥०३-८१-६९॥
ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम्। तत्र वैतरणी पुण्या नदी पापप्रमोचनी ॥०३-८१-७०॥
तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम्। सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥०३-८१-७१॥
ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम्। यत्र देवाः सदा राजन्फलकीवनमाश्रिताः ॥ तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् ॥०३-८१-७२॥
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः। अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत ॥०३-८१-७३॥
तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम। गोसहस्रस्य राजेन्द्र फलं प्राप्नोति मानवः ॥०३-८१-७४॥
पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः। राजसूयमवाप्नोति ऋषिलोकं च गच्छति ॥०३-८१-७५॥
ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम्। तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ॥०३-८१-७६॥
व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम्। सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ॥०३-८१-७७॥
ततो व्यासवनं गच्छेन्नियतो नियताशनः। मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ॥०३-८१-७८॥
गत्वा मधुवटीं चापि देव्यास्तीर्थं नरः शुचिः। तत्र स्नात्वार्चयेद्देवान्पितॄंश्च प्रयतः शुचिः ॥ स देव्या समनुज्ञातो गोसहस्रफलं लभेत् ॥०३-८१-७९॥
कौशिक्याः सङ्गमे यस्तु दृषद्वत्याश्च भारत। स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते ॥०३-८१-८०॥
ततो व्यासस्थली नाम यत्र व्यासेन धीमता। पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः ॥०३-८१-८१॥
कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तदा। अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत् ॥०३-८१-८२॥
किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च। गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह ॥०३-८१-८३॥
अहश्च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे। तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् ॥०३-८१-८४॥
मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम्। तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः ॥ शूलपाणिं महादेवमश्वमेधफलं लभेत् ॥०३-८१-८५॥
देवतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्। अथ वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम् ॥०३-८१-८६॥
तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम्। सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ॥०३-८१-८७॥
कुलम्पुने नरः स्नात्वा पुनाति स्वकुलं नरः। पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् ॥ तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते ॥०३-८१-८८॥
अमराणां ह्रदे स्नात्वा अमरेषु नराधिप। अमराणां प्रभावेन स्वर्गलोके महीयते ॥०३-८१-८९॥
शालिहोत्रस्य राजेन्द्र शालिशूर्पे यथाविधि। स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ॥०३-८१-९०॥
श्रीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम। तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ॥०३-८१-९१॥
ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह। ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः ॥ तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा ॥०३-८१-९२॥
ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम। ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् ॥०३-८१-९३॥
तस्मिन्कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत्। कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् ॥०३-८१-९४॥
ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम्। तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ॥ ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् ॥०३-८१-९५॥
ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम्। तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ॥०३-८१-९६॥
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप। यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः ॥०३-८१-९७॥
पुरा मङ्कणको राजन्कुशाग्रेणेति नः श्रुतम्। क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ॥०३-८१-९८॥
स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः। प्रनृत्तः किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः ॥०३-८१-९९॥
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत्। प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥०३-८१-१००॥
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः। विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ॥ नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥०३-८१-१०१॥
ततः प्रनृत्तमासाद्य हर्षाविष्टेन चेतसा। सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत ॥०३-८१-१०२॥
अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान्। हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ॥०३-८१-१०३॥
ऋषिरुवाच॥
किं न पश्यसि मे देव कराच्छाकरसं स्रुतम्। यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः ॥०३-८१-१०४॥
पुलस्त्य उवाच॥
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्। अहं वै विस्मयं विप्र न गच्छामीति पश्य माम् ॥०३-८१-१०५॥
एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता। अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ ॥०३-८१-१०६॥
ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम्। तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ॥०३-८१-१०७॥
नान्यं देवमहं मन्ये रुद्रात्परतरं महत्। सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥०३-८१-१०८॥
त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम्। त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ॥०३-८१-१०९॥
देvairपि न शक्यस्त्वं परिज्ञातुं कुतो मया। त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोऽनघ ॥०३-८१-११०॥
सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह। त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ॥ एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् ॥०३-८१-१११॥
ऋषिरुवाच॥
त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै। पुलस्त्य उवाच॥
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत्। तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ॥०३-८१-११३॥
आश्रमे चेह वत्स्यामि त्वया सार्धं महामुने। सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् ॥०३-८१-११४॥
न तेषां दुर्लभं किञ्चिदिह लोके परत्र च। सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ॥०३-८१-११५॥
ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम्। यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥०३-८१-११६॥
कार्त्तिकेयश्च भगवांस्त्रिसन्ध्यं किल भारत। सांनिध्यमकरोत्तत्र भार्गवप्रियकाम्यया ॥०३-८१-११७॥
कपालमोचनं तीर्थं सर्वपापप्रमोचनम्। तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ॥०३-८१-११८॥
अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ। अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् ॥०३-८१-११९॥
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम। तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते ॥०३-८१-१२०॥
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः। तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ॥ पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ॥०३-८१-१२१॥
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम्। पृथूदकमिति ख्यातं कार्त्तिकेयस्य वै नृप ॥ तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥०३-८१-१२२॥
अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा। यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धिना ॥०३-८१-१२३॥
तत्सर्वं नश्यते तस्य स्नातमात्रस्य भारत। अश्वमेधफलं चापि स्वर्गलोकं च गच्छति ॥०३-८१-१२४॥
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम्। सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ॥०३-८१-१२५॥
उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम्। पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ॥०३-८१-१२६॥
गीतं सनत्कुमारेण व्यासेन च महात्मना। वेदे च नियतं राजनभिगच्छेत्पृथूदकम् ॥०३-८१-१२७॥
पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम। एतन्मेध्यं पवित्रं च पावनं च न संशयः ॥०३-८१-१२८॥
तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः। पृथूदके नरश्रेष्ठ प्राहुरेवं मनीषिणः ॥०३-८१-१२९॥
मधुस्रवं च तत्रैव तीर्थं भरतसत्तम। तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥०३-८१-१३०॥
ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम्। सरस्वत्यारुणायाश्च सङ्गमं लोकविश्रुतम् ॥०३-८१-१३१॥
त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया। अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥०३-८१-१३२॥
आसप्तमं कुलं चैव पुनाति भरतर्षभ। अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ॥ विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा ॥०३-८१-१३३॥
व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः। क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः ॥०३-८१-१३४॥
क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ। चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातने ॥०३-८१-१३५॥
समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा। येषु स्नातो नरव्याघ्र न दुर्गतिमवाप्नुयात् ॥ फलानि गोसहस्राणां चतुर्णां विन्दते च सः ॥०३-८१-१३६॥
ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम्। साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ॥०३-८१-१३७॥
उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत्। दानं वाप्युपवासो वा सहस्रगुणितं भवेत् ॥०३-८१-१३८॥
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम्। तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ स्रवपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ॥०३-८१-१३९॥
विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः। प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते ॥०३-८१-१४०॥
ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः। पुण्येन महता युक्तः सतां लोके महीयते ॥०३-८१-१४१॥
यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः। तमर्चयित्वा देवेशं गमनादेव सिध्यति ॥०३-८१-१४२॥
औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा। यत्र ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः ॥०३-८१-१४३॥
सेनापत्येन देवानामभिषिक्तो गुहस्तदा ॥०३-८१-१४३॥
औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह। कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ॥ सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते ॥०३-८१-१४४॥
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः। स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति ॥०३-८१-१४५॥
ततो गच्छेदनरकं तीर्थसेवी नराधिप। तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥०३-८१-१४६॥
तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते। अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः ॥०३-८१-१४७॥
सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह। अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् ॥०३-८१-१४८॥
तत्रैव च महाराज विश्वेश्वरमुमापतिम्। अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ॥०३-८१-१४९॥
नारायणं चाभिगम्य पद्मनाभमरिंदमम्। शोभमानो महाराज विष्णुलोकं प्रपद्यते ॥०३-८१-१५०॥
तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ। सर्वदुःखैः परित्यक्तो द्योतते शशिवत्सदा ॥०३-८१-१५१॥
ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप। पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः ॥ अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥०३-८१-१५२॥
गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ। तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते ॥ तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते ॥०३-८१-१५३॥
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम्। गाणपत्यमवाप्नोति कुलं चोद्धरते स्वकम् ॥०३-८१-१५४॥
ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम्। तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् ॥०३-८१-१५५॥
बदरीपाचनं गच्छेद्वसिष्ठस्याश्रमं ततः। बदरं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः ॥०३-८१-१५६॥
सम्यग्द्वादश वर्षाणि बदरान्भक्षयेत्तु यः। त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप ॥०३-८१-१५७॥
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप। अहोरात्रोपवासेन शक्रलोके महीयते ॥०३-८१-१५८॥
एकरात्रं समासाद्य एकरात्रोषितो नरः। नियतः सत्यवादी च ब्रह्मलोके महीयते ॥०३-८१-१५९॥
ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम्। आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः ॥०३-८१-१६०॥
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम्। आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ॥०३-८१-१६१॥
सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह। सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः ॥०३-८१-१६२॥
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः। तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् ॥०३-८१-१६३॥
यत्र सारस्वतो राजन्सोऽङ्गिरास्तपसो निधिः। तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ॥ सारस्वतीं गतिं चैव लभते नात्र संशयः ॥०३-८१-१६४॥
ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान्। त्रिरात्रोपोषितो राजन्नुपवासपरायणः ॥ लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति ॥०३-८१-१६५॥
ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि। यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ मासि मासि समायान्ति पुण्येन महतान्विताः ॥०३-८१-१६६॥
संनिहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे। अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ॥०३-८१-१६७॥
पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च। नद्यो नदास्तडागाश्च सर्वप्रस्रवणानि च ॥०३-८१-१६८॥
उदपानाश्च वप्राश्च पुण्यान्यायतनानि च। मासि मासि समायान्ति संनिहित्यां न संशयः ॥०३-८१-१६९॥
यत्किञ्चिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा। स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ॥ पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति ॥०३-८१-१७०॥
अभिवाद्य ततो यक्षं द्वारपालमरन्तुकम्। कोटिरूपमुपस्पृश्य लभेद्बहु सुवर्णकम् ॥०३-८१-१७१॥
गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम। तत्र स्नातस्तु धर्मज्ञ ब्रह्मचारी समाहितः ॥ राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् ॥०३-८१-१७२॥
पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम्। त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ॥०३-८१-१७३॥
पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः। अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥०३-८१-१७४॥
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम्। ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ॥०३-८१-१७५॥
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्। अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते ॥०३-८१-१७६॥
ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम्। तदावसन्ति ये राजन्न ते शोच्याः कथञ्चन ॥०३-८१-१७७॥
तरन्तुकारन्तुकयोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य। एतत्कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिरुच्यते ॥०३-८१-१७८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.