03.082
पुलस्त्य उवाच॥
ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम्। तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः ॥ आसप्तमं कुलं राजन्पुनीते नात्र संशयः ॥०३-८२-१॥
ततो गच्छेत धर्मज्ञ कारापतनमुत्तमम्। अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति ॥०३-८२-२॥
सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः। यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥०३-८२-३॥
सिद्धचारणगन्धर्वाः किंनराः समहोरगाः। तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ॥०३-८२-४॥
ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी। प्लक्षाद्देवी स्रुता राजन्महापुण्या सरस्वती ॥०३-८२-५॥
तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले। अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ॥०३-८२-६॥
ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम्। षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः ॥०३-८२-७॥
कपिलानां सहस्रं च वाजिमेधं च विन्दति। तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने ॥०३-८२-८॥
सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत। अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥०३-८२-९॥
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत। तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ गाणपत्यं स लभते देहं त्यक्त्वा न संशयः ॥०३-८२-१०॥
ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम्। शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता ॥०३-८२-११॥
दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत। आहारं सा कृतवती मासि मासि नराधिप ॥०३-८२-१२॥
ऋषयोऽभ्यागतास्तत्र देव्या भक्त्या तपोधनाः। आतिथ्यं च कृतं तेषां शाकेन किल भारत ॥ ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् ॥०३-८२-१३॥
शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः। त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः ॥०३-८२-१४॥
शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम्। तत्फलं तस्य भवति देव्याश्छन्देन भारत ॥०३-८२-१५॥
ततो गच्छेत्सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम्। यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा ॥०३-८२-१६॥
वरांश्च सुबहूँल्लेभे दैवतेषु सुदुर्लभान्। उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत ॥०३-८२-१७॥
अपि चास्मत्प्रियतरो लोके कृष्ण भविष्यसि। त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः ॥०३-८२-१८॥
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम्। अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥०३-८२-१९॥
धूमावतीं ततो गच्छेत्त्रिरत्रोपोषितो नरः। मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः ॥०३-८२-२०॥
देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप। तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः ॥ महादेवप्रसादाद्धि गच्छेत परमां गतिम् ॥०३-८२-२१॥
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ। धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम् ॥ तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप ॥०३-८२-२२॥
ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम्। स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः ॥०३-८२-२३॥
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः। पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत् ॥०३-८२-२४॥
सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन्। देवान्पितॄंश्च विधिवत्पुण्यलोके महीयते ॥०३-८२-२५॥
ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥०३-८२-२६॥
कपिलावटं च गच्छेत तीर्थसेवी नराधिप। उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् ॥०३-८२-२७॥
नागराजस्य राजेन्द्र कपिलस्य महात्मनाः। तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् ॥०३-८२-२८॥
तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप। कपिलानां सहस्रस्य फलं प्राप्नोति मानवः ॥०३-८२-२९॥
ततो ललितिकां गच्छेच्छन्तनोस्तीर्थमुत्तमम्। तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥०३-८२-३०॥
गङ्गासङ्गमयोश्चैव स्नाति यः सङ्गमे नरः। दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् ॥०३-८२-३१॥
ततो गच्छेत राजेन्द्र सुगन्धां लोकविश्रुताम्। सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ॥०३-८२-३२॥
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप। तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ॥०३-८२-३३॥
गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च सङ्गमे। स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति ॥०३-८२-३४॥
भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि। न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ॥०३-८२-३५॥
ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम्। गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति ॥०३-८२-३६॥
अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप। सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः ॥ गोसहस्रफलं विन्देत्कुलं चैव समुद्धरेत् ॥०३-८२-३७॥
ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः। अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥०३-८२-३८॥
यमुनाप्रभवं गत्वा उपस्पृश्य च यामुने। अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते ॥०३-८२-३९॥
दर्वीसङ्क्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम्। अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥०३-८२-४०॥
सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम्। तत्रोष्य रजनीः पञ्च विन्द्याद्बहु सुवर्णकम् ॥०३-८२-४१॥
अथ वेदीं समासाद्य नरः परमदुर्गमाम्। अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् ॥०३-८२-४२॥
ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत। वासिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः ॥०३-८२-४३॥
ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते। यदि तत्र वसेन्मासं शाकाहारो नराधिप ॥०३-८२-४४॥
भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत्। गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ॥०३-८२-४५॥
कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत। अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत् ॥०३-८२-४६॥
ततः सन्ध्यां समासाद्य विद्यातीर्थमनुत्तमम्। उपस्पृश्य च विद्यानां सर्वासां पारगो भवेत् ॥०३-८२-४७॥
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने। एककालं निराहारो लोकानावसते शुभान् ॥०३-८२-४८॥
षष्ठकालोपवासेन मासमुष्य महालये। सर्वपापविशुद्धात्मा विन्द्याद्बहु सुवर्णकम् ॥०३-८२-४९॥
अथ वेतसिकां गत्वा पितामहनिषेविताम्। अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् ॥०३-८२-५०॥
अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम्। रूपस्य भागी भवति दृष्टमेतत्पुरातने ॥०३-८२-५१॥
ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः। पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ॥०३-८२-५२॥
ततश्च नैमिषं 가च्छेत्पुण्यं सिद्धनिषेवितम्। तत्र नित्यं निवसति ब्रह्मा देवगणैर्वृतः ॥०३-८२-५३॥
नैमिषं प्रार्थयानस्य पापस्यार्धं प्रणश्यति। प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते ॥०३-८२-५४॥
तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः। पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत ॥०३-८२-५५॥
अभिषेककृतस्तत्र नियतो नियताशनः। गवामयस्य यज्ञस्य फलं प्राप्नोति भारत ॥ पुनात्यासप्तमं चैव कुलं भरतसत्तम ॥०३-८२-५६॥
यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः। स मोदेत्स्वर्गलोकस्थ एवमाहुर्मनीषिणः ॥ नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम ॥०३-८२-५७॥
गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः। वाजपेयमवाप्नोति ब्रह्मभूतश्च जायते ॥०३-८२-५८॥
सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः। सारस्वतेषु लोकेषु मोदते नात्र संशयः ॥०३-८२-५९॥
ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः। देवसत्रस्य यज्ञस्य फलं प्राप्नोति मानवः ॥०३-८२-६०॥
ततश्चीरवतीं गच्छेत्पुण्यां पुण्यतमैर्वृताम्। पितृदेवार्चनरतो वाजपेयमवाप्नुयात् ॥०३-८२-६१॥
विमलाशोकमासाद्य विराजति यथा शशी। तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ॥०३-८२-६२॥
गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम्। यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः ॥०३-८२-६३॥
देहं त्यक्त्वा दिवं यातस्तस्य तीर्थस्य तेजसा। रामस्य च प्रसादेन व्यवसायाच्च भारत ॥०३-८२-६४॥
तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप। सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥०३-८२-६५॥
रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन। अश्वमेधमवाप्नोति पुनाति च कुलं नरः ॥०३-८२-६६॥
शतसाहस्रिकं तत्र तीर्थं भरतसत्तम। तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः ॥ गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ ॥०३-८२-६७॥
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम्। कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप ॥ गोसहस्रफलं विन्देत्तेजस्वी च भवेन्नरः ॥०३-८२-६८॥
ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम्। कपिलाह्रदे नरः स्नात्वा राजसूयफलं लभेत् ॥०३-८२-६९॥
मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम्। गोमतीगङ्गयोश्चैव सङ्गमे लोकविश्रुते ॥ अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ॥०३-८२-७०॥
ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः। अश्वमेधमवाप्नोति गमनादेव भारत ॥०३-८२-७१॥
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः। पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ॥०३-८२-७२॥
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः। अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ॥०३-८२-७३॥
ततो ब्रह्मसरो गच्छेद्धर्मारण्योपशोभितम्। पौण्डरीकमवाप्नोति प्रभातामेव शर्वरीम् ॥०३-८२-७४॥
तस्मिन्सरसि राजेन्द्र ब्रह्मणो यूप उच्छ्रितः। यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् ॥०३-८२-७५॥
ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम्। एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ॥ सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् ॥०३-८२-७६॥
तत्र चिह्नं महाराज अद्यापि हि न संशयः। कपिला सह वत्सेन पर्वते विचरत्युत ॥ सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत ॥०३-८२-७७॥
तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम। यत्किञ्चिदशुभं कर्म तत्प्रणश्यति भारत ॥०३-८२-७८॥
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः। स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् ॥०३-८२-७९॥
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम्। इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥०३-८२-८०॥
गच्छेत तत उद्यन्तं पर्वतं गीतनादितम्। सावित्रं तु पदं तत्र दृश्यते भरतर्षभ ॥०३-८२-८१॥
तत्र सन्ध्यामुपासीत ब्राह्मणः संशितव्रतः। उपास्ता च भवेत्सन्ध्या तेन द्वादशवार्षिकी ॥०३-८२-८२॥
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ। तत्राभिगम्य मुच्येत पुरुषो योनिसङ्करात् ॥०३-८२-८३॥
कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः। पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ॥०३-८२-८४॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्। यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥०३-८२-८५॥
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप। अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् ॥०३-८२-८६॥
ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः। यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ॥ अभिगम्य ततस्तत्र वाजिमेधफलं लभेत् ॥०३-८२-८७॥
ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम्। तत्रार्चयित्वा राजेन्द्र ब्रह्माणममितौजसम् ॥ राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥०३-८२-८८॥
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप। उपस्पृश्य तपोदेषु काक्षीवानिव मोदते ॥०३-८२-८९॥
यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः। यक्षिण्यास्तु प्रसादेन मुच्यते भ्रूणहत्यया ॥०३-८२-९०॥
मणिनागं ततो गत्वा गोसहस्रफलं लभेत्। नैत्यकं भुञ्जते यस्तु मणिनागस्य मानवः ॥०३-८२-९१॥
दष्टस्याशीविषेणापि न तस्य क्रमते विषम्। तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते ॥०३-८२-९२॥
ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप। अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् ॥ अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम् ॥०३-८२-९३॥
तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः। तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् ॥०३-८२-९४॥
जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः। तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् ॥०३-८२-९५॥
ततो विनशनं गच्छेत्सर्वपापप्रमोचनम्। वाजपेयमवाप्नोति सोमलोकं च गच्छति ॥०३-८२-९६॥
गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम्। वाजपेयमवाप्नोति सूर्यलोकं च गच्छति ॥०३-८२-९७॥
ततोऽधिवंश्यं धर्मज्ञ समाविश्य तपोवनम्। गुह्यकेषु महाराज मोदते नात्र संशयः ॥०३-८२-९८॥
कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम्। पुण्डरीकमवाप्नोति सूर्यलोकं च गच्छति ॥०३-८२-९९॥
ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम्। अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ॥०३-८२-१००॥
अथ माहेश्वरीं धारां समासाद्य नराधिप। अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥०३-८२-१०१॥
दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः। न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ॥०३-८२-१०२॥
महेश्वरपदं गच्छेद्ब्रह्मचारी समाहितः। महेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ॥०३-८२-१०३॥
तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ। कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना ॥ ह्रियमाणाहृता राजन्विष्णुना प्रभविष्णुना ॥०३-८२-१०४॥
तत्राभिषेकं कुर्वाणस्तीर्थकोट्यां युधिष्ठिर। पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ॥०३-८२-१०५॥
ततो गच्छेत राजेन्द्र स्थानं नारायणस्य तु। सदा संनिहितो यत्र हरिर्वसति भारत ॥ शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः ॥०३-८२-१०६॥
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम्। अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥०३-८२-१०७॥
तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः। समुद्रास्तत्र चत्वारः कूपे संनिहिताः सदा ॥ तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात् ॥०३-८२-१०८॥
अभिगम्य महादेवं वरदं विष्णुमव्ययम्। विराजति यथा सोम ऋणैर्मुक्तो युधिष्ठिर ॥०३-८२-१०९॥
जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः। जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः ॥०३-८२-११०॥
वटेश्वरपुरं गत्वा अर्चयित्वा तु केशवम्। ईप्सिताँल्लभते कामानुपवासान्न संशयः ॥०३-८२-१११॥
ततस्तु वामनं गत्वा सर्वपापप्रमोचनम्। अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् ॥०३-८२-११२॥
भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम्। कौशिकीं तत्र सेवेत महापातकनाशिनीम् ॥ राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥०३-८२-११३॥
ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम्। तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥०३-८२-११४॥
अथ ज्येष्ठिलमासाद्य तीर्थं परमसंमतम्। उपोष्य रजनीमेकामग्निष्टोमफलं लभेत् ॥०३-८२-११५॥
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम्। मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ ॥०३-८२-११६॥
कन्यासंवेद्यमासाद्य नियतो नियताशनः। मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ ॥०३-८२-११७॥
कन्यायां ये प्रयच्छन्ति पानमन्नं च भारत। तदक्षयमिति प्राहुरृषयः संशितव्रताः ॥०३-८२-११८॥
निश्चीरां च समासाद्य त्रिषु लोकेषु विश्रुताम्। अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥०३-८२-११९॥
ये तु दानं प्रयच्छन्ति निश्चीरासङ्गमे नराः। ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः ॥०३-८२-१२०॥
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः। तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ॥०३-८२-१२१॥
देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम्। अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥०३-८२-१२२॥
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम्। यत्र सिद्धिं परां प्राप्तो विश्वामित्रोऽथ कौशिकः ॥०३-८२-१२३॥
तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ। अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ॥०३-८२-१२४॥
सर्वतीर्थवरे चैव यो वसेत महाह्रदे। न दुर्गतिमवाप्नोति विन्देद्बहु सुवर्णकम् ॥०३-८२-१२५॥
कुमारमभिगत्वा च वीराश्रमनिवासिनम्। अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः ॥०३-८२-१२६॥
अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम्। अग्निष्टोममवाप्नोति न च स्वर्गान्निवर्तते ॥०३-८२-१२७॥
पितामहसरो गत्वा शैलराजप्रतिष्ठितम्। तत्राभिषेकं कुर्वाणो अग्निष्टोमफलं लभेत् ॥०३-८२-१२८॥
पितामहस्य सरसः प्रस्रुता लोकपावनी। कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता ॥०३-८२-१२९॥
यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति। षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया ॥०३-८२-१३०॥
शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम्। समारुह्य नरः श्राद्धः स्तनकुण्डेषु संविशेत् ॥०३-८२-१३१॥
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः। हयमेधमवाप्नोति शक्रलोकं च गच्छति ॥०३-८२-१३२॥
ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः। अश्वमेधमवाप्नोति शक्रलोकं च गच्छति ॥०३-८२-१३३॥
नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम्। नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह ॥०३-८२-१३४॥
कालिकासङ्गमे स्नात्वा कौशिक्यारुणयोर्यतः। त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते ॥०३-८२-१३५॥
उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः। कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः ॥०३-८२-१३६॥
स्नात्वा कोकामुखे पुण्ये ब्रह्मचारी यतव्रतः। जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातने ॥०३-८२-१३७॥
सकृन्नन्दां समासाद्य कृतात्मा भवति द्विजः। सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति ॥०३-८२-१३८॥
ऋषभद्वीपमासाद्य सेव्यं क्रौञ्चनिषूदनम्। सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ॥०३-८२-१३९॥
औद्दालकं महाराज तीर्थं मुनिनिषेवितम्। तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते ॥०३-८२-१४०॥
धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम्। वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः ॥०३-८२-१४१॥
तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः। दण्डार्कमभिगम्यैव गोसहस्रफलं लभेत् ॥०३-८२-१४२॥
लवेडिकां ततो गच्छेत्पुण्यां पुण्योपसेविताम्। वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ॥०३-८२-१४३॥