Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.083
पुलस्त्य उवाच॥
अथ सन्ध्यां समासाद्य संवेद्यं तीर्थमुत्तमम्। उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः ॥०३-८३-१॥
रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा। तल्लोहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् ॥०३-८३-२॥
करतोयां समासाद्य त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोति कृते पैतामहे विधौ ॥०३-८३-३॥
गङ्गायास्त्वथ राजेन्द्र सागरस्य च सङ्गमे। अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥०३-८३-४॥
गङ्गायास्त्वपरं द्वीपं प्राप्य यः स्नाति भारत। त्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुयात् ॥०३-८३-५॥
ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम्। विरजं तीर्थमासाद्य विराजति यथा शशी ॥०३-८३-६॥
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति। गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः ॥०३-८३-७॥
शोणस्य ज्योतिरथ्याश्च सङ्गमे निवसञ्शुचिः। तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥०३-८३-८॥
शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दन। वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् ॥०३-८३-९॥
ऋषभं तीर्थमासाद्य कोशलायां नराधिप। वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः ॥०३-८३-१०॥
कोशलायां समासाद्य कालतीर्थ उपस्पृशेत्। वृशभैकादशफलं लभते नात्र संशयः ॥०३-८३-११॥
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः। गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ॥०३-८३-१२॥
ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः। दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति ॥०३-८३-१३॥
ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम्। रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ॥०३-८३-१४॥
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन। तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥०३-८३-१५॥
श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत्। अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥०३-८३-१६॥
श्रीपर्वते महादेवो देव्या सह महाद्युतिः। न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः ॥०३-८३-१७॥
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः। अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ॥०३-८३-१८॥
ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम्। वाजपेयमवाप्नोति नाकपृष्ठे च मोदते ॥०३-८३-१९॥
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः। तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥०३-८३-२०॥
ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत्। तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ॥०३-८३-२१॥
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम्। समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ॥०३-८३-२२॥
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः। भूतयक्षपिशाचाश्च किंनराः समहोरगाः ॥०३-८३-२३॥
सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा। सरितः सागराः शैला उपासन्त उमापतिम् ॥०३-८३-२४॥
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः। दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति ॥ उष्य द्वादशरात्रं तु कृतात्मा भवते नरः ॥०३-८३-२५॥
तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम्। त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् ॥०३-८३-२६॥
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप। गायत्रीं पठते यस्तु योनिसङ्करजस्तथा ॥ गाथा वा गीतिका वापि तस्य सम्पद्यते नृप ॥०३-८३-२७॥
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम्। रूपस्य भागी भवति सुभगश्चैव जायते ॥०३-८३-२८॥
ततो वेण्णां समासाद्य तर्पयेत्पितृदेवताः। मयूरहंससंयुक्तं विमानं लभते नरः ॥०३-८३-२९॥
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम्। गवामयमवाप्नोति वासुकेर्लोकमाप्नुयात् ॥०३-८३-३०॥
वेण्णायाः सङ्गमे स्नात्वा वाजपेयफलं लभेत्। वरदासङ्गमे स्नात्वा गोसहस्रफलं लभेत् ॥०३-८३-३१॥
ब्रह्मस्थानं समासाद्य त्रिरात्रमुषितो नरः। गोसहस्रफलं विन्देत्स्वर्गलोकं च गच्छति ॥०३-८३-३२॥
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः। त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् ॥०३-८३-३३॥
ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे। जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप ॥०३-८३-३४॥
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः। अग्निष्टोमशतं विन्देद्गमनादेव भारत ॥०३-८३-३५॥
सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत्। जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः ॥०३-८३-३६॥
ततोऽवाप्य महापुण्यां पयोष्णीं सरितां वराम्। पितृदेवार्चनरतो गोसहस्रफलं लभेत् ॥०३-८३-३७॥
दण्डकारण्यमासाद्य महाराज उपस्पृशेत्। गोसहस्रफलं तत्र स्नातमात्रस्य भारत ॥०३-८३-३८॥
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः। न दुर्गतिमवाप्नोति पुनाति च कुलं नरः ॥०३-८३-३९॥
ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम्। रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् ॥०३-८३-४०॥
सप्तगोदावरे स्नात्वा नियतो नियताशनः। महत्पुण्यमवाप्नोति देवलोकं च गच्छति ॥०३-८३-४१॥
ततो देवपथं गच्छेन्नियतो नियताशनः। देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः ॥०३-८३-४२॥
तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः। वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा ॥०३-८३-४३॥
तत्र वेदान्प्रनष्टांस्तु मुनेरङ्गिरसः सुतः। उपविष्टो महर्षीणामुत्तरीयेषु भारत ॥०३-८३-४४॥
ओङ्कारेण यथान्यायं सम्यगुच्चारितेन च। येन यत्पूर्वमभ्यस्तं तत्तस्य समुपस्थितम् ॥०३-८३-४५॥
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः। हरिर्नारायणो देवो महादेवस्तथैव च ॥०३-८३-४६॥
पितामहश्च भगवान्देवैः सह महाद्युतिः। भृगुं नियोजयामास याजनार्थे महाद्युतिम् ॥०३-८३-४७॥
ततः स चक्रे भगवानृषीणां विधिवत्तदा। सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा ॥०३-८३-४८॥
आज्ञ्यभागेन वै तत्र तर्पितास्तु यथाविधि। देवास्त्रिभुवणं याता ऋषयश्च यथासुखम् ॥०३-८३-४९॥
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम। पापं प्रणश्यते सर्वं स्त्रियो वा पुरुषस्य वा ॥०३-८३-५०॥
तत्र मासं वसेद्धीरो नियतो नियताशनः। ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं नरः ॥०३-८३-५१॥
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत्। अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ॥०३-८३-५२॥
ततः कालञ्जरं गत्वा पर्वतं लोकविश्रुतम्। तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥०३-८३-५३॥
आत्मानं साधयेत्तत्र गिरौ कालञ्जरे नृप। स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः ॥०३-८३-५४॥
ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते। मन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम् ॥०३-८३-५५॥
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः। अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ॥०३-८३-५६॥
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम्। यत्र देवो महासेनो नित्यं संनिहितो नृपः ॥०३-८३-५७॥
पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यति। कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥०३-८३-५८॥
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः। अभिगम्य महादेवं विराजति यथा शशी ॥०३-८३-५९॥
तत्र कूपो महाराज विश्रुतो भरतर्षभ। समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर ॥०३-८३-६०॥
तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम्। नियतात्मा नरः पूतो गच्छेत परमां गतिम् ॥०३-८३-६१॥
ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत्। यत्र तीर्णो महाराज रामो दाशरथिः पुरा ॥०३-८३-६२॥
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः। विधूतपाप्मा भवति वाजपेयं च विन्दति ॥०३-८३-६३॥
अभिगम्य महादेवमभ्यर्च्य च नराधिप। प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ॥०३-८३-६४॥
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम्। यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥०३-८३-६५॥
लोकपालाश्च साध्याश्च नैरृताः पितरस्तथा। सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥०३-८३-६६॥
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे। तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा ॥०३-८३-६७॥
सरितः सागराश्चैव गन्धर्वाप्सरसस्तथा। हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ॥०३-८३-६८॥
तत्र त्रीण्यग्निकुण्डानि येषां मध्ये च जाह्नवी। प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ॥०३-८३-६९॥
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता। यमुना गङ्गया सार्धं सङ्गता लोकपावनी ॥०३-८३-७०॥
गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम्। प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः ॥०३-८३-७१॥
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा। तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ॥०३-८३-७२॥
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर। प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः ॥ यजन्ते क्रतुभिर्देवास्तथा चक्रचरा नृप ॥०३-८३-७३॥
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत। प्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो ॥०३-८३-७४॥
श्रवणात्तस्य तीर्थस्य नामसङ्कीर्तनादपि। मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते ॥०३-८३-७५॥
तत्राभिषेकं यः कुर्यात्सङ्गमे संशितव्रतः। पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः ॥०३-८३-७६॥
एषा यजनभूमिर्हि देवानामपि सत्कृता। तत्र दत्तं सूक्ष्ममपि महद्भवति भारत ॥०३-८३-७७॥
न वेदवचनात्तात न लोकवचनादपि। मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥०३-८३-७८॥
दश तीर्थसहस्राणि षष्टिकोट्त्यस्तथापराः। येषां सांनिध्यमत्रैव कीर्तितं कुरुनन्दन ॥०३-८३-७९॥
चातुर्वेदे च यत्पुण्यं सत्यवादिषु चैव यत्। स्नात एव तदाप्नोति गङ्गायमुनसङ्गमे ॥०३-८३-८०॥
तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम्। तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् ॥०३-८३-८१॥
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम्। दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ॥०३-८३-८२॥
यत्र गङ्गा महाराज स देशस्तत्तपोवनम्। सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥०३-८३-८३॥
इदं सत्यं द्विजातीनां साधूनामात्मजस्य च। सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च ॥०३-८३-८४॥
इदं धर्म्यमिदं पुण्यमिदं मेध्यमिदं सुखम्। इदं स्वर्ग्यमिदं रम्यमिदं पावनमुत्तमम् ॥०३-८३-८५॥
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम्। अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् ॥०३-८३-८६॥
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः। जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते ॥०३-८३-८७॥
गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च। मनसा तानि गच्छेत सर्वतीर्थसमीक्षया ॥०३-८३-८८॥
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः। ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः ॥०३-८३-८९॥
एवं त्वमपि कौरव्य विधिनानेन सुव्रत। व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते ॥०३-८३-९०॥
भावितैः कारणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात्। प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः ॥०३-८३-९१॥
नाव्रतो नाकृतात्मा च नाशुचिर्न च तस्करः। स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥०३-८३-९२॥
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना। पितरस्तारितास्तात सर्वे च प्रपितामहाः ॥०३-८३-९३॥
पितामहपुरोगाश्च देवाः सर्षिगणा नृप। तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः ॥०३-८३-९४॥
अवाप्स्यसि च लोकान्वै वसूनां वासवोपम। कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम् ॥०३-८३-९५॥
नारद उवाच॥
एवमुक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवानृषिः। प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत ॥०३-८३-९६॥
भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान्। पुलस्त्यवचनाच्चैव पृथिवीमनुचक्रमे ॥०३-८३-९७॥
अनेन विधिना यस्तु पृथिवीं सञ्चरिष्यति। अश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते ॥०३-८३-९८॥
अतश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम्। नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् ॥०३-८३-९९॥
रक्षोगणावकीर्णानि तीर्थान्येतानि भारत। न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन ॥०३-८३-१००॥
इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम्। यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते ॥०३-८३-१०१॥
ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ काश्यपः। आत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गौतमः ॥०३-८३-१०२॥
असितो देवलश्चैव मार्कण्डेयोऽथ गालवः। भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा ॥०३-८३-१०३॥
शौनकः सह पुत्रेण व्यासश्च जपतां वरः। दुर्वासाश्च मुनिश्रेष्ठो गालवश्च महातपाः ॥०३-८३-१०४॥
एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः। एभिः सह महाराज तीर्थान्येतान्यनुव्रज ॥०३-८३-१०५॥
एष वै लोमशो नाम देवर्षिरमितद्युतिः। समेष्यति त्वया चैव तेन सार्धमनुव्रज ॥०३-८३-१०६॥
मया च सह धर्मज्ञ तीर्थान्येतान्यनुव्रज। प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः ॥०३-८३-१०७॥
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः। तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे ॥०३-८३-१०८॥
यथा भगीरथो राजा यथा रामश्च विश्रुतः। तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव ॥०३-८३-१०९॥
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः। यथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः ॥०३-८३-११०॥
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहत्पुरा। तथा शत्रुक्षयं कृत्वा प्रजास्त्वं पालयिष्यसि ॥०३-८३-१११॥
स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन। ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा ॥०३-८३-११२॥
वैशम्पायन उवाच॥
एवमाश्वास्य राजानं नारदो भगवानृषिः। अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत ॥०३-८३-११३॥
युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तयन्। तीर्थयात्राश्रयं पुण्यमृषीणां प्रत्यवेदयत् ॥०३-८३-११४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.