03.087
धौम्य उवाच॥
अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि। यानि तत्र पवित्राणि पुण्यान्यायतनानि च ॥०३-८७-१॥
प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनी। प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत ॥०३-८७-२॥
निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः। जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः ॥०३-८७-३॥
वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभः। दिव्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥०३-८७-४॥
तस्य शैलस्य शिखरे सरस्तत्र च धीमतः। प्रफुल्लनलिनं राजन्देवगन्धर्वसेवितम् ॥०३-८७-५॥
बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते। पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते ॥०३-८७-६॥
ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित्। विश्वामित्रनदी पारा पुण्या परपुरञ्जय ॥०३-८७-७॥
यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः। पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान् ॥०३-८७-८॥
तत्र पुण्यह्रदस्तात मैनाकश्चैव पर्वतः। बहुमूलफलो वीर असितो नाम पर्वतः ॥०३-८७-९॥
आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर। च्यवनस्याश्रमश्चैव ख्यातः सर्वत्र पाण्डव ॥ तत्राल्पेनैव सिध्यन्ति मानवास्तपसा विभो ॥०३-८७-१०॥
जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम्। आश्रमः शाम्यतां श्रेष्ठ मृगद्विजगणायुतः ॥०३-८७-११॥
ततः पुण्यतमा राजन्सततं तापसायुता। केतुमाला च मेध्या च गङ्गारण्यं च भूमिप ॥ ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् ॥०३-८७-१२॥
पितामहसरः पुण्यं पुष्करं नाम भारत। वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः ॥०३-८७-१३॥
अप्यत्र संस्तवार्थाय प्रजापतिरथो जगौ। पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर ॥०३-८७-१४॥
मनसाप्यभिकामस्य पुष्कराणि मनस्विनः। पापाणि विप्रणश्यन्ति नाकपृष्ठे च मोदते ॥०३-८७-१५॥