03.088
धौम्य उवाच॥
उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै। तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च ॥०३-८८-१॥
सरस्वती पुण्यवहा ह्रदिनी वनमालिनी। समुद्रगा महावेगा यमुना यत्र पाण्डव ॥०३-८८-२॥
तत्र पुण्यतमं तीर्थं प्लक्षावतरणं शिवम्। यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः ॥०३-८८-३॥
पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ। सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत ॥०३-८८-४॥
एतस्मिन्नेव चार्थेयमिन्द्रगीता युधिष्ठिर। गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः ॥०३-८८-५॥
अग्नयः सहदेवेन ये चिता यमुनामनु। शतं शतसहस्राणि सहस्रशतदक्षिणाः ॥०३-८८-६॥
तत्रैव भरतो राजा चक्रवर्ती महायशाः। विंशतिं सप्त चाष्टौ च हयमेधानुपाहरत् ॥०३-८८-७॥
कामकृद्यो द्विजातीनां श्रुतस्तात मया पुरा। अत्यन्तमाश्रमः पुण्यः सरकस्तस्य विश्रुतः ॥०३-८८-८॥
सरस्वती नदी सद्भिः सततं पार्थ पूजिता। वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा ॥०३-८८-९॥
दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर। तत्र वैवर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप ॥०३-८८-१०॥
वेदज्ञौ वेदविदितौ विद्यावेदविदावुभौ। यजन्तौ क्रतुभिर्नित्यं पुण्यैर्भरतसत्तम ॥०३-८८-११॥
समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा। विशाखयूपेऽतप्यन्त तस्मात्पुण्यतमः स वै ॥०३-८८-१२॥
ऋषिर्महान्महाभागो जमदग्निर्महायशाः। पलाशकेषु पुण्येषु रम्येष्वयजताभिभूः ॥०३-८८-१३॥
यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात्तमृषिसत्तमम्। स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे ॥०३-८८-१४॥
अपि चात्र महाराज स्वयं विश्वावसुर्जगौ। इमं श्लोकं तदा वीर प्रेक्ष्य वीर्यं महात्मनः ॥०३-८८-१५॥
यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः। आगम्य सरितः सर्वा मधुना समतर्पयन् ॥०३-८८-१६॥
गन्धर्वयक्षरक्षोभिरप्सरोभिश्च शोभितम्। किरातकिंनरावासं शैलं शिखरिणां वरम् ॥०३-८८-१७॥
बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर। पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम् ॥०३-८८-१८॥
सनत्कुमारः कौरव्य पुण्यं कनखलं तथा। पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः ॥०३-८८-१९॥
भृगुर्यत्र तपस्तेपे महर्षिगणसेवितः। स राजन्नाश्रमः ख्यातो भृगुतुङ्गो महागिरिः ॥०३-८८-२०॥
यच्च भूतं भविष्यच्च भवच्च पुरुषर्षभ। नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः ॥०३-८८-२१॥
तस्यातियशसः पुण्यां विशालां बदरीमनु। आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ॥०३-८८-२२॥
उष्णतोयवहा गङ्ग शीततोयवहापरा। सुवर्णसिकता राजन्विशालां बदरीमनु ॥०३-८८-२३॥
ऋषयो यत्र देवाश्च महाभागा महौजसः। प्राप्य नित्यं नमस्यन्ति देवं नारायणं विभुम् ॥०३-८८-२४॥
यत्र नारायणो देवः परमात्मा सनातनः। तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च ॥०३-८८-२५॥
तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम्। तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः ॥०३-८८-२६॥
आदिदेवो महायोगी यत्रास्ते मधुसूदनः। पुण्यानामपि तत्पुण्यं तत्र ते संशयोऽस्तु मा ॥०३-८८-२७॥
एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते। कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च ॥०३-८८-२८॥
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः। ऋषिभिर्ब्रह्मकल्पैश्च सेवितानि महात्मभिः ॥०३-८८-२९॥
चरनेतानि कौन्तेय सहितो ब्राह्मणर्षभैः। भ्रातृभिश्च महाभागैरुत्कण्ठां विजहिष्यसि ॥०३-८८-३०॥