Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.089
वैशम्पायन उवाच॥
एवं सम्भाषमाणे तु धौम्ये कौरवनन्दन। लोमशः सुमहातेजा ऋषिस्तत्राजगाम ह ॥०३-८९-१॥
तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते। उदतिष्ठन्महाभागं दिवि शक्रमिवामराः ॥०३-८९-२॥
तमभ्यर्च्य यथान्यायं धर्मराजो युधिष्ठिरः। पप्रच्छागमने हेतुमटने च प्रयोजनम् ॥०३-८९-३॥
स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः। उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् ॥०३-८९-४॥
सञ्चरन्नस्मि कौन्तेय सर्वलोकान्यदृच्छया। गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम् ॥०३-८९-५॥
तव च भ्रातरं वीरमपश्यं सव्यसाचिनम्। शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् ॥ आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् ॥०३-८९-६॥
आह मां तत्र देवेशो गच्छ पाण्डुसुतानिति। सोऽहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहानुजम् ॥०३-८९-७॥
वचनात्पुरुहूतस्य पार्थस्य च महात्मनः। आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन ॥०३-८९-८॥
भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु। यत्त्वयोक्तो महाबाहुरस्त्रार्थं पाण्डवर्षभ ॥०३-८९-९॥
तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं महत्। यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागतम् ॥०३-८९-१०॥
अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना। तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् ॥०३-८९-११॥
वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर। यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन ॥ अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः ॥०३-८९-१२॥
विश्वावसोश्च तनयाद्गीतं नृत्तं च साम च। वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि ॥०३-८९-१३॥
एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान्। सुखं वसति बीभत्सुरनुजस्यानुजस्तव ॥०३-८९-१४॥
यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत्। तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे ॥०३-८९-१५॥
भवान्मनुष्यलोकाय गमिष्यति न संशयः। ब्रूयाद्युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम ॥०३-८९-१६॥
आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः। सुरकार्यं महत्कृत्वा यदाशक्यं दिवौकसैः ॥०३-८९-१७॥
तपसा तु त्वमात्मानं भ्रातृभिः सह योजय। तपसो हि परं नास्ति तपसा विन्दते महत् ॥०३-८९-१८॥
अहं च कर्णं जानामि यथावद्भरतर्षभ। न स पार्थस्य सङ्ग्रामे कलामर्हति षोडशीम् ॥०३-८९-१९॥
यच्चापि ते भयं तस्मान्मनसिस्थमरिंदम। तच्चाप्यपहरिष्यामि सव्यसाचाविहागते ॥०३-८९-२०॥
यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति। तच्च ते लोमशः सर्वं कथयिष्यत्यसंशयम् ॥०३-८९-२१॥
यच्च किञ्चित्तपोयुक्तं फलं तीर्थेषु भारत। महर्षिरेष यद्ब्रूयात्तच्छ्रद्धेयमनन्यथा ॥०३-८९-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.