03.093
अगस्त्योपाख्यानम्
वैशम्पायन उवाच॥
ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह। क्रमेण पृथिवीपाल नैमिषारण्यमागताः ॥०३-९३-१॥
ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप। कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत ॥०३-९३-२॥
तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनः पुनः। कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च कौरवाः ॥०३-९३-३॥
वालकोट्यां वृषप्रस्थे गिरावुष्य च पाण्डवाः। बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् ॥०३-९३-४॥
प्रयागे देवयजने देवानां पृथिवीपते। ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् ॥०३-९३-५॥
गङ्गायमुनयोश्चैव सङ्गमे सत्यसङ्गराः। विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु ॥०३-९३-६॥
तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः। जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत ॥०३-९३-७॥
तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम्। सन्तर्पयन्तः सततं वन्येन हविषा द्विजान् ॥०३-९३-८॥
ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम्। राजर्षिणा पुण्यकृता गयेनानुपमद्युते ॥०३-९३-९॥
सरो गयशिरो यत्र पुण्या चैव महानदी। ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोत्तमम् ॥०३-९३-१०॥
अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति। उवास च स्वयं यत्र धर्मो राजन्सनातनः ॥०३-९३-११॥
सर्वासां सरितां चैव समुद्भेदो विशां पते। यत्र संनिहितो नित्यं महादेवः पिनाकधृक् ॥०३-९३-१२॥
तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे। ऋषियज्ञेन महता यत्राक्षयवटो महान् ॥०३-९३-१३॥
ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः। चातुर्मास्येनायजन्त आर्षेण विधिना तदा ॥०३-९३-१४॥
तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः। कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम् ॥०३-९३-१५॥
तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः। शमठोऽकथयद्राजन्नामूर्तरयसं गयम् ॥०३-९३-१६॥
अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः। पुण्यानि यस्य कर्माणि तानि मे शृणु भारत ॥०३-९३-१७॥
यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः। यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः ॥०३-९३-१८॥
घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा। व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः ॥०३-९३-१९॥
अहन्यहनि चाप्येतद्याचतां सम्प्रदीयते। अन्यत्तु ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् ॥०३-९३-२०॥
तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः। न स्म प्रज्ञायते किञ्चिद्ब्रह्मशब्देन भारत ॥०३-९३-२१॥
पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा। आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् ॥०३-९३-२२॥
तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ। अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः ॥०३-९३-२३॥
गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः। यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ॥०३-९३-२४॥
न स्म पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे। गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः ॥०३-९३-२५॥
कथं नु देवा हविषा गयेन परितर्पिताः। पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् ॥०३-९३-२६॥
एवंविधाः सुबहवस्तस्य यज्ञे महात्मनः। बभूवुरस्य सरसः समीपे कुरुनन्दन ॥०३-९३-२७॥