Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.094
वैशम्पायन उवाच॥
ततः सम्प्रस्थितो राजा कौन्तेयो भूरिदक्षिणः। अगस्त्याश्रममासाद्य दुर्जयायामुवास ह ॥०३-९४-१॥
तत्र वै लोमशं राजा पप्रच्छ वदतां वरः। अगस्त्येनेह वातापिः किमर्थमुपशामितः ॥०३-९४-२॥
आसीद्वा किम्प्रभावश्च स दैत्यो मानवान्तकः। किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः ॥०३-९४-३॥
लोमश उवाच॥
इल्वलो नाम दैतेय आसीत्कौरवनन्दन। मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः ॥०३-९४-४॥
स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः। पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ॥०३-९४-५॥
तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम्। चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ॥०३-९४-६॥
समाह्वयति यं वाचा गतं वैवस्वतक्षयम्। स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते ॥०३-९४-७॥
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम्। तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ॥०३-९४-८॥
तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः। वातापिः प्रहसन्राजन्निश्चक्राम विशां पते ॥०३-९४-९॥
एवं स ब्राह्मणान्राजन्भोजयित्वा पुनः पुनः। हिंसयामास दैतेय इल्वलो दुष्टचेतनः ॥०३-९४-१०॥
अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु। पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान् ॥०३-९४-११॥
सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किम्पराः। सन्तानहेतोरिति ते तमूचुर्ब्रह्मवादिनः ॥०३-९४-१२॥
ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः। गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः ॥०३-९४-१३॥
यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम्। स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् ॥०३-९४-१४॥
स तानुवाच तेजस्वी सत्यधर्मपरायणः। करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः ॥०३-९४-१५॥
ततः प्रसवसन्तानं चिन्तयन्भगवानृषिः। आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् ॥०३-९४-१६॥
स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम्। सम्भृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् ॥०३-९४-१७॥
स तां विदर्भराजाय पुत्रकामाय ताम्यते। निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः ॥०३-९४-१८॥
सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा। विभ्राजमाना वपुसा व्यवर्धत शुभानना ॥०३-९४-१९॥
जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः। प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत ॥०३-९४-२०॥
अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप। लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः ॥०३-९४-२१॥
ववृधे सा महाराज बिभ्रती रूपमुत्तमम्। अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा ॥०३-९४-२२॥
तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलङ्कृताः। दाशीशतं च कल्याणीमुपतस्थुर्वशानुगाः ॥०३-९४-२३॥
सा स्म दासीशतवृता मध्ये कन्याशतस्य च। आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो ॥०३-९४-२४॥
यौवनस्थामपि च तां शीलाचारसमन्विताम्। न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः ॥०३-९४-२५॥
सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति। तोषयामास पितरं शीलेन स्वजनं तथा ॥०३-९४-२६॥
वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता। मनसा चिन्तयामास कस्मै दद्यां सुतामिति ॥०३-९४-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.