Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.092
युधिष्ठिर उवाच॥
न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम। तथास्मि दुःखसन्तप्तो यथा नान्यो महीपतिः ॥०३-९२-१॥
परांश्च निर्गुणान्मन्ये न च धर्मरतानपि। ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन केतुना ॥०३-९२-२॥
लोमश उवाच॥
नात्र दुःखं त्वया राजन्कार्यं पार्थ कथञ्चन। यदधर्मेण वर्धेरन्नधर्मरुचयो जनाः ॥०३-९२-३॥
वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति। ततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥०३-९२-४॥
मया हि दृष्टा दैतेया दानवाश्च महीपते। वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः ॥०३-९२-५॥
पुरा देवयुगे चैव दृष्टं सर्वं मया विभो। अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः ॥०३-९२-६॥
तीर्थानि देवा विविशुर्नाविशन्भारतासुराः। तानधर्मकृतो दर्पः पूर्वमेव समाविशत् ॥०३-९२-७॥
दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत। क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत् ॥०३-९२-८॥
तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान्। क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततः ॥ लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ॥०३-९२-९॥
तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः। दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ॥०३-९२-१०॥
तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथा। दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः ॥०३-९२-११॥
मानाभिभूतानचिराद्विनाशः प्रत्यपद्यत। निर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः ॥०३-९२-१२॥
देवास्तु सागरांश्चैव सरितश्च सरांसि च। अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च ॥०३-९२-१३॥
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव। प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ॥०३-९२-१४॥
एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः। तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ॥०३-९२-१५॥
तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः। पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः ॥०३-९२-१६॥
यथैव हि नृगो राजा शिबिरौशीनरो यथा। भगीरथो वसुमना गयः पूरुः पुरूरवाः ॥०३-९२-१७॥
चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते। तीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम् ॥०३-९२-१८॥
अलभन्त यशः पुण्यं धनानि च विशां पते। तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियम् ॥०३-९२-१९॥
यथा चेक्ष्वाकुरचरत्सपुत्रजनबान्धवः। मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः ॥०३-९२-२०॥
कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात्। देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसे ॥०३-९२-२१॥
धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताः। नचिराद्विनशिष्यन्ति दैत्या इव न संशयः ॥०३-९२-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.