Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.098
युधिष्ठिर उवाच॥
भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः। कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम ॥०३-९८-१॥
लोमश उवाच॥
शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम्। अगस्त्यस्य महाराज प्रभावममितात्मनः ॥०३-९८-२॥
आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः। कालेया इति विख्याता गणाः परमदारुणाः ॥०३-९८-३॥
ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः। समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् ॥०३-९८-४॥
ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा। पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे ॥०३-९८-५॥
कृताञ्जलींस्तु तान्सर्वान्परमेष्ठी उवाच ह। विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् ॥०३-९८-६॥
तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ। दधीच इति विख्यातो महानृषिरुदारधीः ॥०३-९८-७॥
तं गत्वा सहिताः सर्वे वरं वै सम्प्रयाचत। स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना ॥०३-९८-८॥
स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः। स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै ॥ स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति ॥०३-९८-९॥
तस्यास्थिभिर्महाघोरं वज्रं सम्भ्रियतां दृढम्। महच्छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम् ॥०३-९८-१०॥
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः। एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम् ॥०३-९८-११॥
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम्। नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः ॥०३-९८-१२॥
सरस्वत्याः परे पारे नानाद्रुमलतावृतम्। षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव ॥ पुंस्कोकिलरवोन्मिश्रं जीवञ्जीवकनादितम् ॥०३-९८-१३॥
महिषैश्च वराहैश्च सृमरैश्चमरैरपि। तत्र तत्रानुचरितं शार्दूलभयवर्जितैः ॥०३-९८-१४॥
करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः। सरोऽवगाढैः क्रीडद्भिः समन्तादनुनादितम् ॥०३-९८-१५॥
सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम्। अपरैश्चापि संलीनैर्गुहाकन्दरवासिभिः ॥०३-९८-१६॥
तेषु तेष्ववकाशेषु शोभितं सुमनोरमम्। त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् ॥०३-९८-१७॥
तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम्। जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम् ॥०३-९८-१८॥
तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च। अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना ॥०३-९८-१९॥
ततो दधीचः परमप्रतीतः; सुरोत्तमांस्तानिदमभ्युवाच। करोमि यद्वो हितमद्य देवाः; स्वं चापि देहं त्वहमुत्सृजामि ॥०३-९८-२०॥
स एवमुक्त्वा द्विपदां वरिष्ठः; प्राणान्वशी स्वान्सहसोत्ससर्ज। ततः सुरास्ते जगृहुः परासो; रस्थीनि तस्याथ यथोपदेशम् ॥०३-९८-२१॥
प्रहृष्टरूपाश्च जयाय देवा; स्त्वष्टारमागम्य तमर्थमूचुः। त्वष्टा तु तेषां वचनं निशम्य; प्रहृष्टरूपः प्रयतः प्रयत्नात् ॥०३-९८-२२॥
चकार वज्रं भृशमुग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः। अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिमुग्रम् ॥०३-९८-२३॥
ततो हतारिः सगणः सुखं वै; प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः। त्वष्ट्रा तथोक्तः स पुरंदरस्तु; वज्रं प्रहृष्टः प्रयतोऽभ्यगृह्णात् ॥०३-९८-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.