03.099
लोमश उवाच॥
ततः स वज्री बलिभिर्दैवतैरभिरक्षितः। आससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥०३-९९-१॥
कालकेयैर्महाकायैः समन्तादभिरक्षितम्। समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ॥०३-९९-२॥
ततो युद्धं समभवद्देवानां सह दानवैः। मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ॥०३-९९-३॥
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः। आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम् ॥०३-९९-४॥
शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम्। तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत ॥०३-९९-५॥
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः। त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ॥०३-९९-६॥
तेषां वेगवतां वेगं सहितानां प्रधावताम्। न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ॥०३-९९-७॥
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः। वृत्रे विवर्धमाने च कश्मलं महदाविशत् ॥०३-९९-८॥
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः। स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन् ॥०३-९९-९॥
विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास्ततः। स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥०३-९९-१०॥
स समाप्यायितः शक्रो विष्णुना दैवतैः सह। ऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥०३-९९-११॥
ज्ञात्वा बलस्थं त्रिदशाधिपं तु; ननाद वृत्रो महतो निनादान्। तस्य प्रणादेन धरा दिशश्च; खं द्यौर्नगाश्चापि चचाल सर्वम् ॥०३-९९-१२॥
ततो महेन्द्रः परमाभितप्तः; श्रुत्वा रवं घोररूपं महान्तम्। भये निमग्नस्त्वरितं मुमोच; वज्रं महत्तस्य वधाय राजन् ॥०३-९९-१३॥
स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी। यथा महाञ्शैलवरः पुरस्ता; त्स मन्दरो विष्णुकरात्प्रमुक्तः ॥०३-९९-१४॥
तस्मिन्हते दैत्यवरे भयार्तः; शक्रः पदुद्राव सरः प्रवेष्टुम्। वज्रं न मेने स्वकरात्प्रमुक्तं; वृत्रं हतं चापि भयान्न मेने ॥०३-९९-१५॥
सर्वे च देवा मुदिताः प्रहृष्टा; महर्षयश्चेन्द्रमभिष्टुवन्तः। सर्वांश्च दैत्यांस्त्वरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान् ॥०३-९९-१६॥
ते वध्यमानास्त्रिदशैस्तदानीं; समुद्रमेवाविविशुर्भयार्ताः। प्रविश्य चैवोदधिमप्रमेयं; झषाकुलं रत्नसमाकुलं च ॥०३-९९-१७॥
तदा स्म मन्त्रं सहिताः प्रचक्रु; स्त्रैलोक्यनाशार्थमभिस्मयन्तः। तत्र स्म केचिन्मतिनिश्चयज्ञा; स्तांस्तानुपायाननुवर्णयन्ति ॥०३-९९-१८॥
तेषां तु तत्र क्रमकालयोगा; द्घोरा मतिश्चिन्तयतां बभूव। ये सन्ति विद्यातपसोपपन्ना; स्तेषां विनाशः प्रथमं तु कार्यः ॥०३-९९-१९॥
लोका हि सर्वे तपसा ध्रियन्ते; तस्मात्त्वरध्वं तपसः क्षयाय। ये सन्ति केचिद्धि वसुन्धरायां; तपस्विनो धर्मविदश्च तज्ज्ञाः ॥ तेषां वधः क्रियतां क्षिप्रमेव; तेषु प्रनष्टेषु जगत्प्रनष्टम् ॥०३-९९-२०॥
एवं हि सर्वे गतबुद्धिभावा; जगद्विनाशे परमप्रहृष्टाः। दुर्गं समाश्रित्य महोर्मिमन्तं; रत्नाकरं वरुणस्यालयं स्म ॥०३-९९-२१॥