Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.097
लोमश उवाच॥
इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान्। उपस्थितान्सहामात्यो विषयान्तेऽभ्यपूजयत् ॥०३-९७-१॥
तेषां ततोऽसुरश्रेष्ठ आतिथ्यमकरोत्तदा। स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल ॥०३-९७-२॥
ततो राजर्षयः सर्वे विषण्णा गतचेतसः। वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् ॥०३-९७-३॥
अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः। विषादो वो न कर्तव्यो अहं भोक्ष्ये महासुरम् ॥०३-९७-४॥
धुर्यासनमथासाद्य निषसाद महामुनिः। तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव ॥०३-९७-५॥
अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः। भुक्तवत्यसुरोऽऽह्वानमकरोत्तस्य इल्वलः ॥०३-९७-६॥
ततो वायुः प्रादुरभूदगस्त्यस्य महात्मनः। इल्वलश्च विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् ॥०३-९७-७॥
प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत्। किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः ॥०३-९७-८॥
प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा। ईशं ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् ॥०३-९७-९॥
इमे च नातिधनिनो धनार्थश्च महान्मम। यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ॥०३-९७-१०॥
ततोऽभिवाद्य तमृषिमिल्वलो वाक्यमब्रवीत्। दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु ॥०३-९७-११॥
अगस्त्य उवाच॥
गवां दश सहस्राणि राज्ञामेकैकशोऽसुर। तावदेव सुवर्णस्य दित्सितं ते महासुर ॥०३-९७-१२॥
मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः। मनोजवौ वाजिनौ च दित्सितं ते महासुर ॥ जिज्ञास्यतां रथः सद्यो व्यक्तमेष हिरण्मयः ॥०३-९७-१३॥
लोमश उवाच॥
जिज्ञास्यमानः स रथः कौन्तेयासीद्धिरण्मयः। ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु ॥०३-९७-१४॥
विवाजश्च सुवाजश्च तस्मिन्युक्तौ रथे हयौ। ऊहतुस्तौ वसून्याशु तान्यगस्त्याश्रमं प्रति ॥०३-९७-१५॥
सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत ॥०३-९७-१५॥
अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा। कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम् ॥०३-९७-१६॥
लोपामुद्रोवाच॥
कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम्। उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् ॥०३-९७-१७॥
अगस्त्य उवाच॥
तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने। विचारणामपत्ये तु तव वक्ष्यामि तां शृणु ॥०३-९७-१८॥
सहस्रं तेऽस्तु पुत्राणां शतं वा दशसंमितम्। दश वा शततुल्याः स्युरेको वापि सहस्रवत् ॥०३-९७-१९॥
लोपामुद्रोवाच॥
सहस्रसंमितः पुत्र एको मेऽस्तु तपोधन। एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः ॥०३-९७-२०॥
लोमश उवाच॥
स तथेति प्रतिज्ञाय तया समभवन्मुनिः। समये समशीलिन्या श्रद्धावाञ्श्रद्दधानया ॥०३-९७-२१॥
तत आधाय गर्भं तमगमद्वनमेव सः। तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् ॥०३-९७-२२॥
सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः। ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत ॥ साङ्गोपनिषदान्वेदाञ्जपन्नेव महायशाः ॥०३-९७-२३॥
तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः। स बाल एव तेजस्वी पितुस्तस्य निवेशने ॥ इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् ॥०३-९७-२४॥
तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस्तदा। लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् ॥०३-९७-२५॥
अगस्त्यस्याश्रमः ख्यातः सर्वर्तुकुसुमान्वितः। प्राह्रादिरेवं वातापिरगस्त्येन विनाशितः ॥०३-९७-२६॥
तस्यायमाश्रमो राजन्रमणीयो गुणैर्युतः। एषा भागीरथी पुण्या यथेष्टमवगाह्यताम् ॥०३-९७-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.