03.101
देवा ऊचुः॥
इतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाः। ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः ॥०३-१०१-१॥
लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताः। त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः ॥०३-१०१-२॥
इदं च समनुप्राप्तं लोकानां भयमुत्तमम्। न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः ॥०३-१०१-३॥
क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति। ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति ॥०३-१०१-४॥
त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते। विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः ॥०३-१०१-५॥
विष्णुरुवाच॥
विदितं मे सुराः सर्वं प्रजानां क्षयकारणम्। भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः ॥०३-१०१-६॥
कालेय इति विख्यातो गणः परमदारुणः। तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रबाधितम् ॥०३-१०१-७॥
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता। जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् ॥०३-१०१-८॥
ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम्। उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीनिह ॥०३-१०१-९॥
न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते। समुद्रस्य क्षये बुद्धिर्भवद्भिः सम्प्रधार्यताम् ॥ अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे ॥०३-१०१-१०॥
एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम्। परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः ॥०३-१०१-११॥
तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम्। उपास्यमानमृषिभिर्देवैरिव पितामहम् ॥०३-१०१-१२॥
तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम्। आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन् ॥०३-१०१-१३॥
देवा ऊचुः॥
नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा। भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः ॥०३-१०१-१४॥
क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः। वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ॥०३-१०१-१५॥
तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः। त्वामेव नाथमासाद्य निर्वृतिं परमां गताः ॥०३-१०१-१६॥
अस्माकं भयभीतानां नित्यशो भगवान्गतिः। ततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि ॥०३-१०१-१७॥