Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.102
युधिष्ठिर उवाच॥
किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः। एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने ॥०३-१०२-१॥
लोमश उवाच॥
अद्रिराजं महाशैलं मरुं कनकपर्वतम्। उदयास्तमये भानुः प्रदक्षिणमवर्तत ॥०३-१०२-२॥
तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यमथाब्रवीत्। यथा हि मेरुर्भवता नित्यशः परिगम्यते ॥ प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर ॥०३-१०२-३॥
एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत। नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम् ॥ एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् ॥०३-१०२-४॥
एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाचलः। सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परन्तप ॥०३-१०२-५॥
ततो देवाः सहिताः सर्व एव; सेन्द्राः समागम्य महाद्रिराजम्। निवारयामासुरुपायतस्तं; न च स्म तेषां वचनं चकार ॥०३-१०२-६॥
अथाभिजग्मुर्मुनिमाश्रमस्थं; तपस्विनं धर्मभृतां वरिष्ठम्। अगस्त्यमत्यद्भुतवीर्यदीप्तं; तं चार्थमूचुः सहिताः सुरास्ते ॥०३-१०२-७॥
देवा ऊचुः॥
सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा। शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः ॥०३-१०२-८॥
तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम। ऋते त्वां हि महाभाग तस्मादेनं निवारय ॥०३-१०२-९॥
लोमश उवाच॥
तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात्। सोऽभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः ॥०३-१०२-१०॥
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम। दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित् ॥०३-१०२-११॥
यावदागमनं मह्यं तावत्त्वं प्रतिपालय। निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः ॥०३-१०२-१२॥
एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन। अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते ॥०३-१०२-१३॥
एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते। अगस्त्यस्य प्रभावेन यन्मां त्वं परिपृच्छसि ॥०३-१०२-१४॥
कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः। अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु ॥०३-१०२-१५॥
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत्। किमर्थमभियाताः स्थ वरं मत्तः किमिच्छथ ॥ एवमुक्तास्ततस्तेन देवास्तं मुनिमब्रुवन् ॥०३-१०२-१६॥
एवं त्वयेच्छाम कृतं महर्षे; महार्णवं पीयमानं महात्मन्। ततो वधिष्याम सहानुबन्धा; न्कालेयसञ्ज्ञान्सुरविद्विषस्तान् ॥०३-१०२-१७॥
त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत्। करिष्ये भवतां कामं लोकानां च महत्सुखम् ॥०३-१०२-१८॥
एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितां पतिम्। ऋषिभिश्च तपःसिद्धैः सार्धं देवैश्च सुव्रतः ॥०३-१०२-१९॥
मनुष्योरगगन्धर्वयक्षकिम्पुरुषास्तथा। अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम् ॥०३-१०२-२०॥
ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिस्वनम्। नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना ॥०३-१०२-२१॥
हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च। नानाग्राहसमाकीर्णं नानाद्विजगणायुतम् ॥०३-१०२-२२॥
अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः। ऋषयश्च महाभागाः समासेदुर्महोदधिम् ॥०३-१०२-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.