Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.100
लोमश उवाच॥
समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम्। कालेयाः सम्प्रवर्तन्त त्रैलोक्यस्य विनाशने ॥०३-१००-१॥
ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन्। आश्रमेषु च ये सन्ति पुन्येष्वायतनेषु च ॥०३-१००-२॥
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः। अशीतिशतमष्टौ च नव चान्ये तपस्विनः ॥०३-१००-३॥
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम्। फलमूलाशनानां हि मुनीनां भक्षितं शतम् ॥०३-१००-४॥
एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा। भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः ॥ वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिपातिताः ॥०३-१००-५॥
एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा। निशायां परिधावन्ति मत्ता भुजबलाश्रयात् ॥ कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् ॥०३-१००-६॥
न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम। एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु ॥०३-१००-७॥
प्रभाते समदृश्यन्त नियताहारकर्शिताः। महीतलस्था मुनयः शरीरैर्गतजीवितैः ॥०३-१००-८॥
क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसन्धिभिः। आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः ॥०३-१००-९॥
कलशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च। विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता ॥०३-१००-१०॥
निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम्। जगदासीन्निरुत्साहं कालेयभयपीडितम् ॥०३-१००-११॥
एवं प्रक्षीयमाणाश्च मानवा मनुजेश्वर। आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात् ॥०३-१००-१२॥
केचिद्गुहाः प्रविविशुर्निर्झरांश्चापरे श्रिताः। अपरे मरणोद्विग्ना भयात्प्रानान्समुत्सृजन्॥०३-१००-१३॥
केचिदत्र महेष्वासाः शूराः परमदर्पिताः। मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे ॥०३-१००-१४॥
न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान्। श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च ॥०३-१००-१५॥
जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये। आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर ॥०३-१००-१६॥
समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे। नारायणं पुरस्कृत्य वैकुण्ठमपराजितम् ॥०३-१००-१७॥
ततो देवाः समेतास्ते तदोचुर्मधुसूदनम्। त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो ॥ त्वया सृष्टमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति ॥०३-१००-१८॥
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण। वाराहं रूपमास्थाय जगदर्थे समुद्धृता ॥०३-१००-१९॥
आदिदैत्यो महावीर्यो हिरण्यकशिपुस्त्वया। नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम ॥०३-१००-२०॥
अवध्यः सर्वभूतानां बलिश्चापि महासुरः। वामनं वपुराश्रित्य त्रैलोक्याद्भ्रंशितस्त्वया ॥०३-१००-२१॥
असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः। यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः ॥०३-१००-२२॥
एवमादीनि कर्माणि येषां सङ्ख्या न विद्यते। अस्माकं भयभीतानां त्वं गतिर्मधुसूदन ॥०३-१००-२३॥
तस्मात्त्वां देव देवेश लोकार्थं ज्ञापयामहे। रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् ॥०३-१००-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.