Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.107
लोमश उवाच॥
स तु राजा महेष्वासश्चक्रवर्ती महारथः। बभूव सर्वलोकस्य मनोनयननन्दनः ॥०३-१०७-१॥
स शुश्राव महाबाहुः कपिलेन महात्मना। पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च ॥०३-१०७-२॥
स राज्यं सचिवे न्यस्य हृदयेन विदूयता। जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः ॥०३-१०७-३॥
आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः। सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् ॥०३-१०७-४॥
शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलङ्कृतम्। पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः ॥०३-१०७-५॥
नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम्। गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम् ॥०३-१०७-६॥
शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः। भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥०३-१०७-७॥
मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः। चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि ॥०३-१०७-८॥
जलस्थानेषु रम्येषु पद्मिनीभिश्च सङ्कुलम्। सारसानां च मधुरैर्व्याहृतैः समलङ्कृतम् ॥०३-१०७-९॥
किंनरैरप्सरोभिश्च निषेवितशिलातलम्। दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम् ॥०३-१०७-१०॥
विद्याधरानुचरितं नानारत्नसमाकुलम्। विषोल्बणैर्भुजङ्गैश्च दीप्तजिह्वैर्निषेवितम् ॥०३-१०७-११॥
क्वचित्कनकसङ्काशं क्वचिद्रजतसंनिभम्। क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत् ॥०३-१०७-१२॥
स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः। फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान् ॥०३-१०७-१३॥
संवत्सरसहस्रे तु गते दिव्ये महानदी। दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ॥०३-१०७-१४॥
गङ्गोवाच॥
किमिच्छसि महाराज मत्तः किं च ददानि ते। तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव ॥०३-१०७-१५॥
लोमश उवाच॥
एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा। पितामहा मे वरदे कपिलेन महानदि ॥ अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ॥०३-१०७-१६॥
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम्। कापिलं तेज आसाद्य क्षणेन निधनं गताः ॥०३-१०७-१७॥
तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते। यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि ॥०३-१०७-१८॥
स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान्। तेषामर्थेऽभियाचामि त्वामहं वै महानदि ॥०३-१०७-१९॥
एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता। भगीरथमिदं वाक्यं सुप्रीता समभाषत ॥०३-१०७-२०॥
करिष्यामि महाराज वचस्ते नात्र संशयः। वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ॥०३-१०७-२१॥
न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप। अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ॥०३-१०७-२२॥
तं तोषय महाबाहो तपसा वरदं हरम्। स तु मां प्रच्युतां देवः शिरसा धारयिष्यति ॥ करिष्यति च ते कामं पितॄणां हितकाम्यया ॥०३-१०७-२३॥
एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः। कैलासं पर्वतं गत्वा तोषयामास शङ्करम् ॥०३-१०७-२४॥
ततस्तेन समागम्य कालयोगेन केनचित्। अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप ॥ स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः ॥०३-१०७-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.