03.108
लोमश उवाच॥
भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम्। एवमस्त्विति राजानं भगवान्प्रत्यभाषत ॥०३-१०८-१॥
धारयिष्ये महाबाहो गगनात्प्रच्युतां शिवाम्। दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम ॥०३-१०८-२॥
एवमुक्त्वा महाबाहो हिमवन्तमुपागमत्। संवृतः पार्षदैर्घोरैर्नानाप्रहरणोद्यतैः ॥०३-१०८-३॥
ततः स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह। प्रयाचस्व महाबाहो शैलराजसुतां नदीम् ॥ पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् ॥०३-१०८-४॥
एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम्। प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत् ॥०३-१०८-५॥
ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता। ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता ॥०३-१०८-६॥
तां प्रच्युतां ततो दृष्ट्वा देवाः सार्धं महर्षिभिः। गन्धर्वोरगरक्षांसि समाजग्मुर्दिदृक्षया ॥०३-१०८-७॥
ततः पपात गगनाद्गङ्गा हिमवतः सुता। समुद्भ्रान्तमहावर्ता मीनग्राहसमाकुला ॥०३-१०८-८॥
तां दधार हरो राजन्गङ्गां गगनमेखलाम्। ललाटदेशे पतितां मालां मुक्तामयीमिव ॥०३-१०८-९॥
सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा। फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः ॥०३-१०८-१०॥
क्वचिदाभोगकुटिला प्रस्खलन्ती क्वचित्क्वचित्। स्वफेनपटसंवीता मत्तेव प्रमदाव्रजत् ॥ क्वचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम् ॥०३-१०८-११॥
एवं प्रकारान्सुबहून्कुर्वन्ती गगनाच्च्युता। पृथिवीतलमासाद्य भगीरथमथाब्रवीत् ॥०३-१०८-१२॥
दर्शयस्व महाराज मार्गं केन व्रजाम्यहम्। त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते ॥०३-१०८-१३॥
एतच्छ्रुत्वा वचो राजा प्रातिष्ठत भगीरथः। यत्र तानि शरीराणि सागराणां महात्मनाम् ॥०३-१०८-१४॥
पावनार्थं नरश्रेष्ठ पुण्येन सलिलेन ह ॥०३-१०८-१४॥
गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः। कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह ॥०३-१०८-१५॥
समुद्रं च समासाद्य गङ्गया सहितो नृपः। पूरयामास वेगेन समुद्रं वरुणालयम् ॥०३-१०८-१६॥
दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत्। पितॄणां चोदकं तत्र ददौ पूर्णमनोरथः ॥०३-१०८-१७॥
एतत्ते सर्वमाख्यातं गङ्गा त्रिपथगा यथा। पूरणार्थं समुद्रस्य पृथिवीमवतारिता ॥०३-१०८-१८॥
समुद्रश्च यथा पीतः कारणार्थे महात्मना। वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो ॥०३-१०८-१९॥
अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि ॥०३-१०८-१९॥