03.106
लोमश उवाच॥
ते तं दृष्ट्वा हयं राजन्सम्प्रहृष्टतनूरुहाः। अनादृत्य महात्मानं कपिलं कालचोदिताः ॥ सङ्क्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः ॥०३-१०६-१॥
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः। वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम् ॥०३-१०६-२॥
स चक्षुर्विवृतं कृत्वा तेजस्तेषु समुत्सृजन्। ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् ॥०३-१०६-३॥
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः। सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत् ॥०३-१०६-४॥
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम्। मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् ॥ आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत् ॥०३-१०६-५॥
अंशुमन्तं समाहूय असमज्ञःसुतं तदा। पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ॥०३-१०६-६॥
षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम्। कापिलं तेज आसाद्य मत्कृते निधनं गताः ॥०३-१०६-७॥
तव चापि पिता तात परित्यक्तो मयानघ। धर्मं संरक्षमाणेन पौराणां हितमिच्छता ॥०३-१०६-८॥
युधिष्ठिर उवाच॥
किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम्। त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ॥०३-१०६-९॥
लोमश उवाच॥
असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत्। यं शैब्या जनयामास पौराणां स हि दारकान् ॥०३-१०६-१०॥
खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् ॥०३-१०६-१०॥
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः। सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः ॥०३-१०६-११॥
त्वं नस्त्राता महाराज परचक्रादिभिर्भयैः। असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि ॥०३-१०६-१२॥
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः। मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत् ॥०३-१०६-१३॥
असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम्। यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम् ॥०३-१०६-१४॥
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप। यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः ॥०३-१०६-१५॥
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना। पौराणां हितकामेन सगरेण विवासितः ॥०३-१०६-१६॥
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण ह। तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे ॥०३-१०६-१७॥
सगर उवाच॥
पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च। अलाभेन तथाश्वस्य परितप्यामि पुत्रक ॥०३-१०६-१८॥
तस्माद्दुःखाभिसन्तप्तं यज्ञविघ्नाच्च मोहितम्। हयस्यानयनात्पौत्र नरकान्मां समुद्धर ॥०३-१०६-१९॥
लोमश उवाच॥
अंशुमानेवमुक्तस्तु सगरेण महात्मना। जगाम दुःखात्तं देशं यत्र वै दारिता मही ॥०३-१०६-२०॥
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह। अपश्यच्च महात्मानं कपिलं तुरगं च तम् ॥०३-१०६-२१॥
स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम्। प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ॥०३-१०६-२२॥
ततः प्रीतो महातेजाः कलिपोंऽशुमतोऽभवत्। उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत ॥०३-१०६-२३॥
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात्। द्वितीयमुदकं वव्रे पितॄणां पावनेप्सया ॥०३-१०६-२४॥
तमुवाच महातेजाः कपिलो मुनिपुङ्गवः। ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ ॥०३-१०६-२५॥
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम्। त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता ॥०३-१०६-२६॥
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः। पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति ॥ पावनार्थं सागराणां तोषयित्वा महेश्वरम् ॥०३-१०६-२७॥
हयं नयस्व भद्रं ते यज्ञियं नरपुङ्गव। यज्ञः समाप्यतां तात सगरस्य महात्मनः ॥०३-१०६-२८॥
अंशुमानेवमुक्तस्तु कपिलेन महात्मना। आजगाम हयं गृह्य यज्ञवाटं महात्मनः ॥०३-१०६-२९॥
सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः। मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत् ॥०३-१०६-३०॥
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा। तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ॥०३-१०६-३१॥
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत्। अंशुमन्तं च सम्पूज्य समापयत तं क्रतुम् ॥०३-१०६-३२॥
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः। पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् ॥०३-१०६-३३॥
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः। पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा ॥०३-१०६-३४॥
अंशुमानपि धर्मात्मा महीं सागरमेखलाम्। प्रशशास महाराज यथैवास्य पितामहः ॥०३-१०६-३५॥
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित्। तस्मै राज्यं समाधाय अंशुमानपि संस्थितः ॥०३-१०६-३६॥
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत्। पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ॥०३-१०६-३७॥
गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः। न चावतारयामास चेष्टमानो यथाबलम् ॥०३-१०६-३८॥
तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः। भगीरथ इति ख्यातः सत्यवागनसूयकः ॥०३-१०६-३९॥
अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः। तपःसिद्धिसमायोगात्स राजा भरतर्षभ ॥ वनाज्जगाम त्रिदिवं कालयोगेन भारत ॥०३-१०६-४०॥