Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.109
वैशम्पायन उवाच॥
ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ। नन्दामपरनन्दां च नद्यौ पापभयापहे ॥०३-१०९-१॥
स पर्वतं समासाद्य हेमकूटमनामयम्। अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः ॥०३-१०९-२॥
वाचो यत्राभवन्मेघा उपलाश्च सहस्रशः। नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः ॥०३-१०९-३॥
वायुर्नित्यं ववौ यत्र नित्यं देवश्च वर्षति। सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः ॥०३-१०९-४॥
एवं बहुविधान्भावानद्भुतान्वीक्ष्य पाण्डवः। लोमशं पुनरेव स्म पर्यपृच्छत्तदद्भुतम् ॥०३-१०९-५॥
लोमश उवाच॥
यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन। तदेकाग्रमना राजन्निबोध गदतो मम ॥०३-१०९-६॥
अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः। अनेकशतवर्षायुस्तपस्वी कोपनो भृशम् ॥०३-१०९-७॥
स वै सम्भाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह। य इह व्याहरेत्कश्चिदुपलानुत्सृजेस्तदा ॥०३-१०९-८॥
वातं चाहूय मा शब्दमित्युवाच स तापसः। व्याहरंश्चैव पुरुषो मेघेन विनिवार्यते ॥०३-१०९-९॥
एवमेतानि कर्माणि राजंस्तेन महर्षिणा। कृतानि कानिचित्कोपात्प्रतिषिद्धानि कानिचित् ॥०३-१०९-१०॥
नन्दामभिगतान्देवान्पुरा राजन्निति श्रुतिः। अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः ॥०३-१०९-११॥
ते दर्शनमनिच्छन्तो देवाः शक्रपुरोगमाः। दुर्गं चक्रुरिमं देशं गिरिप्रत्यूहरूपकम् ॥०३-१०९-१२॥
तदा प्रभृति कौन्तेय नरा गिरिमिमं सदा। नाशक्नुवनभिद्रष्टुं कुत एवाधिरोहितुम् ॥०३-१०९-१३॥
नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः। आरोढुं वापि कौन्तेय तस्मान्नियतवाग्भव ॥०३-१०९-१४॥
इह देवाः सदा सर्वे यज्ञानाजह्रुरुत्तमान्। तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत ॥०३-१०९-१५॥
कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरियम्। यूपप्रकारा बहवो वृक्षाश्चेमे विशां पते ॥०३-१०९-१६॥
देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत। तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः ॥०३-१०९-१७॥
इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते। कुरुश्रेष्ठाभिषेकं वै तस्मात्कुरु सहानुजः ॥०३-१०९-१८॥
ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि। विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम् ॥०३-१०९-१९॥
वैशम्पायन उवाच॥
ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः। जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम् ॥०३-१०९-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.