03.110
ऋश्यशृङ्गोपाख्यानम्
लोमश उवाच॥
एषा देवनदी पुण्या कौशिकी भरतर्षभ। विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते ॥०३-११०-१॥
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः। ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः ॥०३-११०-२॥
तपसो यः प्रभावेन वर्षयामास वासवम्। अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा ॥०३-११०-३॥
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः। विषये लोमपादस्य यश्चकाराद्भुतं महत् ॥०३-११०-४॥
निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः। लोमपादो दुहितरं सावित्रीं सविता यथा ॥०३-११०-५॥
युधिष्ठिर उवाच॥
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः। विरुद्धे योनिसंसर्गे कथं च तपसा युतः ॥०३-११०-६॥
किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः। अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा ॥०३-११०-७॥
कथंरूपा च शान्ताभूद्राजपुत्री यतव्रता। लोभयामास या चेतो मृगभूतस्य तस्य वै ॥०३-११०-८॥
लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः। कथं वै विषये तस्य नावर्षत्पाकशासनः ॥०३-११०-९॥
एतन्मे भगवन्सर्वं विस्तरेण यथातथम्। वक्तुमर्हसि शुश्रूषोरृष्यशृङ्गस्य चेष्टितम् ॥०३-११०-१०॥
लोमश उवाच॥
विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः। अमोघवीर्यस्य सतः प्रजापतисमद्युतेः ॥०३-११०-११॥
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान्। महाह्रदे महातेजा बालः स्थविरसंमतः ॥०३-११०-१२॥
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः। दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसंमतः ॥०३-११०-१३॥
तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम्। अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा ॥०३-११०-१४॥
सह तोयेन तृषिता सा गर्भिण्यभवन्नृप। अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् ॥०३-११०-१५॥
तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः। ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत ॥०३-११०-१६॥
तस्यर्श्यशृङ्गं शिरसि राजन्नासीन्महात्मनः। तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् ॥०३-११०-१७॥
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः। तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप ॥०३-११०-१८॥
एतस्मिन्नेव काले तु सखा दशरथस्य वै। लोमपाद इति ख्यातो अङ्गानामीश्वरोऽभवत् ॥०३-११०-१९॥
तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः। स ब्राह्मणैः परित्यक्तस्तदा वै जगतीपतिः ॥०३-११०-२०॥
पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया। न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः ॥०३-११०-२१॥
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः। प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः ॥०३-११०-२२॥
कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम्। तमूचुश्चोदितास्तेन स्वमतानि मनीषिणः ॥०३-११०-२३॥
तत्र त्वेको मुनिवरस्तं राजानमुवाच ह। कुपितास्तव राजेन्द्र ब्राह्मणा निस्कृतिं चर ॥०३-११०-२४॥
ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव। वानेयमनभिज्ञं च नारीणामार्जवे रतम् ॥०३-११०-२५॥
स चेदवतरेद्राजन्विषयं ते महातपाः। सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः ॥०३-११०-२६॥
एतच्छ्रुत्वा वचो राजन्कृत्वा निस्कृतिमात्मनः। स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु ॥ राजानमागतं दृष्ट्वा प्रतिसञ्जगृहुः प्रजाः ॥०३-११०-२७॥
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान्। ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये ॥०३-११०-२८॥
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः। शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः ॥०३-११०-२९॥
तत आनाययामास वारमुख्या महीपतिः। वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः ॥०३-११०-३०॥
ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः। लोभयित्वाभिविश्वास्य विषयं मम शोभनाः ॥०३-११०-३१॥
ता राजभयभीताश्च शापभीताश्च योषितः। अशक्यमूचुस्तत्कार्यं विवर्णा गतचेतसः ॥०३-११०-३२॥
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत्। प्रयतिष्ये महाराज तमानेतुं तपोधनम् ॥०३-११०-३३॥
अभिप्रेतांस्तु मे कामान्समनुज्ञातुमर्हसि। ततः शक्ष्ये लोभयितुमृश्यशृङ्गमृषेः सुतम् ॥०३-११०-३४॥
तस्याः सर्वमभिप्रायमन्वजानात्स पार्थिवः। धनं च प्रददौ भूरि रत्नानि विविधानि च ॥०३-११०-३५॥
ततो रूपेण सम्पन्ना वयसा च महीपते। स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा ॥०३-११०-३६॥