03.111
लोमश उवाच॥
सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये। संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत ॥०३-१११-१॥
नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम्। नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः ॥०३-१११-२॥
अतीव रमणीयं तदतीव च मनोहरम्। चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम् ॥०३-१११-३॥
ततो निबध्य तां नावमदूरे काश्यपाश्रमात्। चारयामास पुरुषैर्विहारं तस्य वै मुनेः ॥०३-१११-४॥
ततो दुहितरं वेश्या समाधायेतिकृत्यताम्। दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्बुद्धिसंमताम् ॥०३-१११-५॥
सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ। आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् ॥०३-१११-६॥
वेश्योवाच॥
कच्चिन्मुने कुशलं तापसानां; कच्चिच्च वो मूलफलं प्रभूतम्। कच्चिद्भवान्रमते चाश्रमेऽस्मिं; स्त्वां वै द्रष्टुं साम्प्रतमागतोऽस्मि ॥०३-१११-७॥
कच्चित्तपो वर्धते तापसानां; पिता च ते कच्चिदहीनतेजाः। कच्चित्त्वया प्रीयते चैव विप्र; कच्चित्स्वाध्यायः क्रियते ऋश्यशृङ्ग ॥०३-१११-८॥
ऋश्यशृङ्ग उवाच॥
ऋद्धो भवाञ्ज्योतिरिव प्रकाशते; मन्ये चाहं त्वामभिवादनीयम्। पाद्यं वै ते सम्प्रदास्यामि कामा; द्यथाधर्मं फलमूलानि चैव ॥०३-१११-९॥
कौश्यां बृस्यामास्स्व यथोपजोषं; कृष्णाजिनेनावृतायां सुखायाम्। क्व चाश्रमस्तव किं नाम चेदं; व्रतं ब्रह्मंश्चरसि हि देववत्त्वम् ॥०३-१११-१०॥
वेश्योवाच॥
ममाश्रमः काश्यपपुत्र रम्य; स्त्रियोजनं शैलमिमं परेण। तत्र स्वधर्मोऽनभिवादनं नो; न चोदकं पाद्यमुपस्पृशामः ॥०३-१११-११॥
ऋश्यशृङ्ग उवाच॥
फलानि पक्वानि ददानि तेऽहं; भल्लातकान्यामलकानि चैव। परूषकानीङ्गुदधन्वनानि; प्रियालानां कामकारं कुरुष्व ॥०३-१११-१२॥
लोमश उवाच॥
सा तानि सर्वाणि विसर्जयित्वा; भक्षान्महार्हान्प्रददौ ततोऽस्मै। तान्यृश्यशृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर्हि ॥०३-१११-१३॥
ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति। पानानि चाग्र्याणि ततो मुमोद; चिक्रीड चैव प्रजहास चैव ॥०३-१११-१४॥
सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव। गात्रैश्च गात्राणि निषेवमाणा; समाश्लिषच्चासकृदृश्यशृङ्गम् ॥०३-१११-१५॥
सर्जानशोकांस्तिलकांश्च वृक्षा; न्प्रपुष्पितानवनाम्यावभज्य। विलज्जमानेव मदाभिभूता; प्रलोभयामास सुतं महर्षेः ॥०३-१११-१६॥
अथर्श्यशृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायमस्य। अवेक्षमाणा शनकैर्जगाम; कृत्वाग्निहोत्रस्य तदापदेशम् ॥०३-१११-१७॥
तस्यां गतायां मदनेन मत्तो; विचेतनश्चाभवदृश्यशृङ्गः। तामेव भावेन गतेन शून्यो; विनिःश्वसन्नार्तरूपो बभूव ॥०३-१११-१८॥
ततो मुहूर्ताद्धरिपिङ्गलाक्षः; प्रवेष्टितो रोमभिरा नखाग्रात्। स्वाध्यायवान्वृत्तसमाधियुक्तो; विभाण्डकः काश्यपः प्रादुरासीत् ॥०३-१११-१९॥
सोऽपश्यदासीनमुपेत्य पुत्रं; ध्यायन्तमेकं विपरीतचित्तम्। विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं; विभाण्डकः पुत्रमुवाच दीनम् ॥०३-१११-२०॥
न कल्प्यन्ते समिधः किं नु तात; कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य। सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः; कच्चित्सवत्सा च कृता त्वयाद्य ॥०३-१११-२१॥
न वै यथापूर्वमिवासि पुत्र; चिन्तापरश्चासि विचेतनश्च। दीनोऽतिमात्रं त्वमिहाद्य किं नु; पृच्छामि त्वां क इहाद्यागतोऽभूत् ॥०३-१११-२२॥