Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.122
सुकन्योपाख्यानम्
लोमश उवाच॥
भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवः। समीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः ॥०३-१२२-१॥
स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव। अतिष्ठत्सुबहून्कालानेकदेशे विशां पते ॥०३-१२२-२॥
स वल्मीकोऽभवदृषिर्लताभिरभिसंवृतः। कालेन महता राजन्समाकीर्णः पिपीलिकैः ॥०३-१२२-३॥
तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः। तप्यति स्म तपो राजन्वल्मीकेन समावृतः ॥०३-१२२-४॥
अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः। आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् ॥०३-१२२-५॥
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः। एकैव च सुता शुभ्रा सुकन्या नाम भारत ॥०३-१२२-६॥
सा सखीभिः परिवृता सर्वाभरणभूषिता। चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ॥०३-१२२-७॥
सा चैव सुदती तत्र पश्यमाना मनोरमान्। वनस्पतीन्विचिन्वन्ती विजहार सखीवृता ॥०३-१२२-८॥
रूपेण वयसा चैव मदनेन मदेन च। बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः ॥०३-१२२-९॥
तां सखीरहितामेकामेकवस्त्रामलङ्कृताम्। ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम् ॥०३-१२२-१०॥
तां पश्यमानो विजने स रेमे परमद्युतिः। क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः ॥ तामाबभाषे कल्याणीं सा चास्य न शृणोति वै ॥०३-१२२-११॥
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी। कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ॥०३-१२२-१२॥
किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने। अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान् ॥ ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत् ॥०३-१२२-१३॥
ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम्। तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः ॥०३-१२२-१४॥
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः। केनापकृतमद्येह भार्गवस्य महात्मनः ॥ ज्ञातं वा यदि वाज्ञातं तदृतं ब्रूत माचिरम् ॥०३-१२२-१५॥
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम्। सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु ॥०३-१२२-१६॥
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम्। पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते ॥०३-१२२-१७॥
आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम्। पितरं दुःखितं चापि सुकन्येदमथाब्रवीत् ॥०३-१२२-१८॥
मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत्। खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् ॥०३-१२२-१९॥
एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं तूर्णमाद्रवत्। तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ॥०३-१२२-२०॥
अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः। अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि ॥०३-१२२-२१॥
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा। रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् ॥०३-१२२-२२॥
तामेव प्रतिगृह्याहं राजन्दुहितरं तव। क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते ॥०३-१२२-२३॥
ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन्। ददौ दुहितरं तस्मै च्यवनाय महात्मने ॥०३-१२२-२४॥
प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह। प्राप्तप्रसादो राजा स ससैन्यः पुनराव्रजत् ॥०३-१२२-२५॥
सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता। नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥०३-१२२-२६॥
अग्नीनामतिथीनां च शुश्रूषुरनसूयिका। समाराधयत क्षिप्रं च्यवनं सा शुभानना ॥०३-१२२-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.