Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.121
लोमश उवाच॥
नृगेण यजमानेन सोमेनेह पुरंदरः। तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात् ॥०३-१२१-१॥
इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च। इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥०३-१२१-२॥
आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम्। तर्पयामास सोमेन हयमेधेषु सप्तसु ॥०३-१२१-३॥
तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम्। वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे ॥०३-१२१-४॥
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः। सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः ॥०३-१२१-५॥
तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान्। स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर ॥०३-१२१-६॥
तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः। अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥०३-१२१-७॥
सिकता वा यथा लोके यथा वा दिवि तारकाः। यथा वा वर्षतो धारा असङ्ख्येयाश्च केनचित् ॥०३-१२१-८॥
तथैव तदसङ्ख्येयं धनं यत्प्रददौ गयः। सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु ॥०३-१२१-९॥
भवेत्सङ्ख्येयमेतद्वै यदेतत्परिकीर्तितम्। न सा शक्या तु सङ्ख्यातुं दक्षिणा दक्षिणावतः ॥०३-१२१-१०॥
हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा। ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् ॥०३-१२१-११॥
अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः। गयस्य यजमानस्य तत्र तत्र विशां पते ॥०३-१२१-१२॥
स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत। सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् ॥०३-१२१-१३॥
तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ। उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि ॥०३-१२१-१४॥
वैशम्पायन उवाच॥
स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह। वैडूर्यपर्वतं चैव नर्मदां च महानदीम् ॥ समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः ॥०३-१२१-१५॥
ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः। तीर्थानि रमणीयानि तत्र तत्र विशां पते ॥०३-१२१-१६॥
यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह। ददमानोऽसकृद्वित्तं ब्राह्मणेभ्यः सहस्रशः ॥०३-१२१-१७॥
लोमश उवाच॥
देवानामेति कौन्तेय तथा राज्ञां सलोकताम्। वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च ॥०३-१२१-१८॥
सन्धिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च। एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते ॥०३-१२१-१९॥
एष शर्यातियज्ञस्य देशस्तात प्रकाशते। साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः ॥०३-१२१-२०॥
चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः। संस्तम्भयामास च तं वासवं च्यवनः प्रभुः ॥ सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान् ॥०३-१२१-२१॥
युधिष्ठिर उवाच॥
कथं विष्टम्भितस्तेन भगवान्पाकशासनः। किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ॥०३-१२१-२२॥
नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ। एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम ॥०३-१२१-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.