03.123
लोमश उवाच॥
कस्यचित्त्वथ कालस्य सुराणामश्विनौ नृप। कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥०३-१२३-१॥
तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव। ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् ॥०३-१२३-२॥
कस्य त्वमसि वामोरु किं वने वै करोषि च। इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने ॥०३-१२३-३॥
ततः सुकन्या संवीता तावुवाच सुरोत्तमौ। शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् ॥०३-१२३-४॥
अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु। कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने ॥०३-१२३-५॥
भ्राजसे वनमध्ये त्वं विद्युत्सौदामिनी यथा। न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि ॥०३-१२३-६॥
सर्वाभरणसम्पन्ना परमाम्बरधारिणी। शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी ॥०३-१२३-७॥
कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम्। त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् ॥०३-१२३-८॥
असमर्थं परित्राणे पोषणे च शुचिस्मिते। साधु च्यवनमुत्सृज्य वरयस्वैकमावयोः ॥ पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ॥०३-१२३-९॥
एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत्। रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः ॥०३-१२३-१०॥
तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ। युवानं रूपसम्पन्नं करिष्यावः पतिं तव ॥०३-१२३-११॥
ततस्तस्यावयोश्चैव पतिमेकतमं वृणु। एतेन समयेनैनमामन्त्रय वरानने ॥०३-१२३-१२॥
सा तयोर्वचनाद्राजन्नुपसङ्गम्य भार्गवम्। उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ॥०३-१२३-१३॥
तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति। भर्त्रा सा समनुज्ञाता क्रियतामित्यथाब्रवीत् ॥०३-१२३-१४॥
श्रुत्वा तदश्विनौ वाक्यं तत्तस्याः क्रियतामिति। ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥०३-१२३-१५॥
ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह। अश्विनावपि तद्राजन्सरः प्रविशतां प्रभो ॥०३-१२३-१६॥
ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्ततः। दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः ॥ तुल्यरूपधराश्चैव मनसः प्रीतिवर्धनाः ॥०३-१२३-१७॥
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे। अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ॥ यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने ॥०३-१२३-१८॥
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान्। निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ॥०३-१२३-१९॥
लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम्। हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥०३-१२३-२०॥
यथाहं रूपसम्पन्नो वयसा च समन्वितः। कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ॥०३-१२३-२१॥
तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौ। मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् ॥०३-१२३-२२॥
तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः। च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः ॥०३-१२३-२३॥