Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.126
मान्धात्रुपाख्यानम्
युधिष्ठिर उवाच॥
मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः। कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः ॥ कथं चैतां परां काष्ठां प्राप्तवानमितद्युतिः ॥०३-१२६-१॥
यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः। एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः ॥०३-१२६-२॥
यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेः। जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम् ॥०३-१२६-३॥
लोमश उवाच॥
शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः। यथा मान्धातृशब्दो वै लोकेषु परिगीयते ॥०३-१२६-४॥
इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः। सोऽयजत्पृथिवीपाल क्रतुभिर्भूरिदक्षिणैः ॥०३-१२६-५॥
अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः। अन्यैश्च क्रतुभिर्मुख्यैर्विविधैराप्तदक्षिणैः ॥०३-१२६-६॥
अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः। मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह ॥०३-१२६-७॥
शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मना। पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः ॥०३-१२६-८॥
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः। इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् ॥०३-१२६-९॥
सम्भृतो मन्त्रपूतेन वारिणा कलशो महान्। तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः ॥ यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम् ॥०३-१२६-१०॥
तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः। रात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान् ॥०३-१२६-११॥
शुष्ककण्ठः पिपासार्तः पाणीयार्थी भृशं नृपः। तं प्रविश्याश्रमं श्रान्तः पाणीयं सोऽभ्ययाचत ॥०३-१२६-१२॥
तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा। नाश्रौषीत्कश्चन तदा शकुनेरिव वाशितम् ॥०३-१२६-१३॥
ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः। अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् ॥०३-१२६-१४॥
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः। निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा ॥०३-१२६-१५॥
ततस्ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः। निस्तोयं तं च कलशं ददृशुः सर्व एव ते ॥०३-१२६-१६॥
कस्य कर्मेदमिति च पर्यपृच्छन्समागताः। युवनाश्वो मयेत्येव सत्यं समभिपद्यत ॥०३-१२६-१७॥
न युक्तमिति तं प्राह भगवान्भार्गवस्तदा। सुतार्थं स्थापिता ह्यापस्तपसा चैव सम्भृताः ॥०३-१२६-१८॥
मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम्। पुत्रार्थं तव राजर्षे महाबलपराक्रम ॥०३-१२६-१९॥
महाबलो महावीर्यस्तपोबलसमन्वितः। यः शक्रमपि वीर्येण गमयेद्यमसादनम् ॥०३-१२६-२०॥
अनेन विधिना राजन्मयैतदुपपादितम्। अब्भक्षणं त्वया राजन्नयुक्तं कृतमद्य वै ॥०३-१२६-२१॥
न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथा। नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि ॥०३-१२६-२२॥
पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः। आपस्त्वया महाराज मत्तपोवीर्यसम्भृताः ॥ ताभ्यस्त्वमात्मना पुत्रमेवंवीर्यं जनिष्यसि ॥०३-१२६-२३॥
विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम्। यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् ॥०३-१२६-२४॥
ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः। वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः ॥०३-१२६-२५॥
निश्चक्राम महातेजा न च तं मृत्युराविशत्। युवनाश्वं नरपतिं तदद्भुतमिवाभवत् ॥०३-१२६-२६॥
ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत्। प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे ॥०३-१२६-२७॥
मामयं धास्यतीत्येवं परिभाष्टः स वज्रिणा। मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः ॥०३-१२६-२८॥
प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा। अवर्धत महीपाल किष्कूणां च त्रयोदश ॥०३-१२६-२९॥
वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम्। उपतस्थुर्महाराज ध्यातमात्राणि सर्वशः ॥०३-१२६-३०॥
धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये। अभेद्यं कवचं चैव सद्यस्तमुपसंश्रयन् ॥०३-१२६-३१॥
सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत। धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः ॥०३-१२६-३२॥
तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः। रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे ॥०३-१२६-३३॥
तस्येयं वसुसम्पूर्णा वसुधा वसुधाधिप। तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ॥०३-१२६-३४॥
चितचैत्यो महातेजा धर्मं प्राप्य च पुष्कलम्। शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः ॥०३-१२६-३५॥
एकाह्ना पृथिवी तेन धर्मनित्येन धीमता। निर्जिता शासनादेव सरत्नाकरपत्तना ॥०३-१२६-३६॥
तस्य चित्यैर्महाराज क्रतूनां दक्षिणावताम्। चतुरन्ता मही व्याप्ता नासीत्किञ्चिदनावृतम् ॥०३-१२६-३७॥
तेन पद्मसहस्राणि गवां दश महात्मना। ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते ॥०३-१२६-३८॥
तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना। वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः ॥०३-१२६-३९॥
तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान्। गर्जन्निव महामेघः प्रमथ्य निहतः शरैः ॥०३-१२६-४०॥
प्रजाश्चतुर्विधास्तेन जिता राजन्महात्मना। तेनात्मतपसा लोकाः स्थापिताश्चापि तेजसा ॥०३-१२६-४१॥
तस्यैतद्देवयजनं स्थानमादित्यवर्चसः। पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः ॥०३-१२६-४२॥
एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत्। जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि ॥०३-१२६-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.