03.125
लोमश उवाच॥
तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः। आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ॥०३-१२५-१॥
भयात्संस्तम्भितभुजः सृक्किणी लेलिहन्मुहुः। ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः ॥०३-१२५-२॥
सोमार्हावश्विनावेतावद्य प्रभृति भार्गव। भविष्यतः सत्यमेतद्वचो ब्रह्मन्ब्रवीमि ते ॥०३-१२५-३॥
न ते मिथ्या समारम्भो भवत्वेष परो विधिः। जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ॥०३-१२५-४॥
सोमार्हावश्विनावेतौ यथैवाद्य कृतौ त्वया। भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव ॥०३-१२५-५॥
सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति। अतो मयैतद्विहितं तव वीर्यप्रकाशनम् ॥ तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि ॥०३-१२५-६॥
एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः। स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरंदरम् ॥०३-१२५-७॥
मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान्। अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ॥०३-१२५-८॥
तथा मदं विनिष्क्षिप्य शक्रं सन्तर्प्य चेन्दुना। अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् ॥०३-१२५-९॥
विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरः। सुकन्यया सहारण्ये विजहारानुरक्तया ॥०३-१२५-१०॥
तस्यैतद्द्विजसङ्घुष्टं सरो राजन्प्रकाशते। अत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय ॥०३-१२५-११॥
एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत। सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् ॥ पुष्करेषु महाराज सर्वेषु च जलं स्पृश ॥०३-१२५-१२॥
आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम्। सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम् ॥ चैत्याश्चैते बहुशतास्त्रिदशानां युधिष्ठिर ॥०३-१२५-१३॥
एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते। वैखानसाश्च ऋषयो वालखिल्यास्तथैव च ॥०३-१२५-१४॥
शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च। सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश ॥०३-१२५-१५॥
शन्तनुश्चात्र कौन्तेय शुनकश्च नराधिप। नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम् ॥०३-१२५-१६॥
इह नित्यशया देवाः पितरश्च महर्षिभिः। आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर ॥०३-१२५-१७॥
इह ते वै चरून्प्राश्नन्नृषयश्च विशां पते। यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः ॥०३-१२५-१८॥
यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन। सर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः ॥०३-१२५-१९॥
एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजाधिप। यत्र धाता विधाता च वरुणश्चोर्ध्वमागताः ॥०३-१२५-२०॥
इह ते न्यवसन्राजन्क्षान्ताः परमधर्मिणः। मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ॥०३-१२५-२१॥
एषा सा यमुना राजन्राजर्षिगणसेविता। नानायज्ञचिता राजन्पुण्या पापभयापहा ॥०३-१२५-२२॥
अत्र राजा महेष्वासो मान्धातायजत स्वयम्। सहदेवश्च कौन्तेय सोमको ददतां वरः ॥०३-१२५-२३॥