Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.127
युधिष्ठिर उवाच॥
कथंवीर्यः स राजाभूत्सोमको वदतां वर। कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः ॥०३-१२७-१॥
लोमश उवाच॥
युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः। तस्य भार्याशतं राजन्सदृशीनामभूत्तदा ॥०३-१२७-२॥
स वै यत्नेन महता तासु पुत्रं महीपतिः। कञ्चिन्नासादयामास कालेन महता अपि ॥०३-१२७-३॥
कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः। जन्तुर्नाम सुतस्तस्मिन्स्त्रीशते समजायत ॥०३-१२७-४॥
तं जातं मातरः सर्वाः परिवार्य समासते। सततं पृष्ठतः कृत्वा कामभोगान्विशां पते ॥०३-१२७-५॥
ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि। स दष्टो व्यनदद्राजंस्तेन दुःखेन बालकः ॥०३-१२७-६॥
ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः। परिवार्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत् ॥०३-१२७-७॥
तमार्तनादं सहसा शुश्राव स महीपतिः। अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः ॥०३-१२७-८॥
ततः प्रस्थापयामास किमेतदिति पार्थिवः। तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति ॥०३-१२७-९॥
त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः। प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः ॥०३-१२७-१०॥
सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः। ऋत्विजैः सहितो राजन्सहामात्य उपाविशत् ॥०३-१२७-११॥
सोमक उवाच॥
धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत्। नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता ॥०३-१२७-१२॥
इदं भार्याशतं ब्रह्मन्परीक्ष्योपचितं प्रभो। पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा ॥०३-१२७-१३॥
एकः कथञ्चिदुत्पन्नः पुत्रो जन्तुरयं मम। यतमानस्य सर्वासु किं नु दुःखमतः परम् ॥०३-१२७-१४॥
वयश्च समतीतं मे सभार्यस्य द्विजोत्तम। आसां प्राणाः समायत्ता मम चात्रैकपुत्रके ॥०३-१२७-१५॥
स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत्। महता लघुना वापि कर्मणा दुष्करेण वा ॥०३-१२७-१६॥
ऋत्विगुवाच॥
अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत्। यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक ॥०३-१२७-१७॥
सोमक उवाच॥
कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत्। कृतमेव हि तद्विद्धि भगवान्प्रब्रवीतु मे ॥०३-१२७-१८॥
ऋत्विगुवाच॥
यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ। ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते ॥०३-१२७-१९॥
वपायां हूयमानायां धूममाघ्राय मातरः। ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् ॥०३-१२७-२०॥
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः। उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ॥०३-१२७-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.